SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३६६ सूत्रकृताङ्ग सूत्रम् २/२/-/६७१ उक्ता धार्मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः, साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेण संक्षेपतो बिभणिषुराह-येयमविरतिः असंयमरूपा सम्यकत्वाभावान्मिथ्याध्ष्टेर्द्रव्यतो विरतिरप्यविरतिरेव तां प्रतीत्य-आश्रित्य बालवद्वालः - अज्ञः सदसद्विवेकविकलत्वात् इत्येवम् 'आधीयते' व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च 'प्रतीत्य' आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, तथा विरताविरतिं चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति विरत्याश्रेयण बालपाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह- 'तत्थ ण' मित्यादि, 'तत्र' पूर्वोक्तेषु स्थानेषु येयं 'सर्वात्मना' सर्वस्मात् 'अविरति' विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यतएवमत एतदनार्यं स्थानं निःशूकतया यत्किञ्चनकारित्वाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः' सम्यक्त्वपूर्विका सावद्यारम्भान्निवृत्तिः सा स्थगितद्वारत्वात् पापानुपादानरूपेति । एतदेवाह - तदेतत्स्थानम् अनारम्भस्थानं - सावद्यानुष्ठानरहितत्वात्संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराद्यातं सर्वहयधर्मेभ्य इत्यार्यं तथा सर्वदुःखप्रक्षीणमार्ग-अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह - 'साधु' रिति, साधुभूतानुष्ठानात्साधुरिति । तत्र च येयं (विरता) विरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम्, एतदपि कथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुश्चेति । तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयणेन ॥ साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणेनानयोरन्तर्वर्ती भवतीति दर्शयति मू. (६७२) एवमेव समणुगम्ममाणा इमेहिं चेव दोहिं ठाणेहिं समोअरंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चेव अनुवसंते चेव, तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाइं तिन्नि तेवट्ठाइं पावादुयसयाइं भवंतीति मक्खायाइं । तंजहा - किरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाइणं, तेऽवि परिनिव्वाणमाहंसु, तेऽवि भोक्खमाहंसु तेऽवि लवंति, सावगा ! तेऽवि लवंति सावइत्तारो । वृ. 'एवमेव ' संक्षेपेण 'सम्यगनुगम्यमाना' व्याख्यायमानाः सम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । किमिति ?, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति । तत्र च यदधर्मपाक्षिकं प्रथमं स्थानं तत्रामूनि त्रीणि त्रिषष्टयधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन दर्शयितुमाह 'तंज' त्यादि, तद्यथेत्युपदर्शनार्थ क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुं शीलं येषां ते क्रियावादिनः, ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनत्वेन वदितुं शीलं येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां तथा विनय एव परलोकसाधने प्रधानं कारणं येषां ते तथा तेषामिति । अत्र च सर्वत्र षष्ठीबहुवचनेनेदमाह, तद्यथा- क्रियावादिनामशीत्युत्तरं शतं अक्रियावादिनां चतुरशीतिरज्ञानिकानां सप्तषष्टिर्वैनयिकानां द्वात्रिंशदिति । तत्र च सर्वेऽप्येते मौलास्तच्छिष्याश्च For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy