SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं-२, ३५५ प्रथमस्य स्थानस्याधर्मपाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभागोविशेषःस्वरूपमितियावत् साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्याह मू. (६६५) अहावरे दोच्चस्स हाणस्स धम्मपखस्स बिभंगे एवमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तंजहा आयरिया वेगेअनारिया वेगे उच्चायोगा वेगेनीयागोया वेगे कायमंता वेगे हस्समंता वैगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवावेगे, तेसिंचणं खेत्तवत्थूणि परिग्गहियाइंभवतं, एसो आलावगो जहा पोंडरीए तहा नेतव्वो, तेणेव अभिलावेण जाव सव्वोवसंता सव्वनाए पनिरिब्बुडेत्तिबेमि। एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहु, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए। वृ. अथे'त्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य 'धर्मपाक्षिकस्य' पुण्योपादानभूतस्य विभङ्गो विभागः स्वरूपं समाधीयते-सम्यगाख्यायते, तद्यथा-प्राचीनंप्रतीचीममुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य 'सन्ति' विद्यन्ते एके केचन कल्याणपरम्पराभाजः 'पुरुषा' मनुष्याः,तेचवक्ष्यमाणस्वभावाभवन्ति, 'तद्यथे'त्ययमुपप्रर्शनार्थः,आर्या एकेकेचनार्यदशोत्पन्नाः, तथाऽनार्या शकयवनशबरबर्बरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्व निरवयवं भणितव्यम् यावत्ते ‘एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि। तदेवमेतत्स्थानं 'कैवलिकं प्रतिपूर्णनैयायिकमित्यादिप्राग्वद्विपर्ययेणनेयंयावद्दिवतीयस्य स्थानस्य धार्मिकस्यैषः 'विभङ्गो' विभागः स्वरूपमाख्यातमिति ॥ साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह मू. (६६६) अहावरे तच्चस्स ट्ठाणस्स मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरणिया आवसहिया गामनियंतिया कण्हुईरहस्सिता जाव ते तओ विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमूत्ताए पञ्चायति। एसठाणे अनारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए। वृ. अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य 'विभङ्गो' विभागः स्वरूपमाख्यायते । अत्रचाधर्मपक्षणयुक्तोधर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येहभूयिष्ठत्वादधर्मपक्ष एवायंद्रष्टव्यः, एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धत्वादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षितासाधकत्वान्निरर्थकतामापद्यते, ततो मिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति एतदेव दर्शयितुमाह-'जे इमे भवंती'त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः-कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो-गृहं तेन चरन्तीत्यावसथिकाः-गृहिणः,ते चकुतश्चित्पापस्थानानिवृत्ताअपिप्रबलमिथ्यात्वोपहतबुद्धयः,तेयधप्युपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्बिषि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy