________________
३५४
सूत्रकृताङ्ग सूत्रम् २/२/-/६६४
यदिवा यदेवास्य-भवदीयास्यस्यन वति निर्गच्छति तदेव वयं कुर्म इति ।
तथा 'तमेवे' त्यादि, तमेव राजानं तथाक्रीडमानं दृष्ट्वा अन्येऽनार्या एवंवदन्ति, तद्यथादेवः खल्वयं पुरुषः, तथा देवस्नातको देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा 'आर्याः' विवेकिनः सदाचारवन्त एवब्रुवते, तद्यथा-अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येनतद्भूतं-कर्म, औणादिकोनक्प्रत्ययः, अतीव-प्रभूतंधूतम्-अष्टप्रकारं कर्मयस्य सोऽतिधूतः, तथाऽती- वात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशिगमनशीलो दक्षिणगामुकः, इदमुक्तं भवति-यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति-दाक्षिणात्येषु नरकतिर्यग्मनुष्यामरेषु उत्पद्यते, ताग्भूतश्चायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह-'नेरइए' इत्यादि, नरकेषुभवो नारकः, कृष्णः पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुवृत्तो दुर्लभबोधिकश्चायं बाहुल्येनभविष्यति ।
इदमुक्तंभवति-दिक्षुमध्ये दक्षिणा दिग्अशस्ता, गतिषुनरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेःसाधुप्रद्वेषिणोदानान्तरायविधायिनो दिगादिकमशस्तंदर्शितम्, अन्यदपियदशस्तंतिर्यग्गत्यादिकमबोधिलाभादिकंचतद्योजनीयमस्येति एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकत्वंसुदेवत्वंशुक्लपाक्षिकत्वंतथा सुमानुषत्वायातस्य सुलभबोधित्वमित्येवमादिकं सद्धर्मानुष्ठायिनः सर्वंभवतीति।साम्प्रतमुपसंजिघृक्षुराह-इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य श्रृङ्गारमूलस्य सांसारिकस्यपरित्यागबुध्ध्याएकेकेचन विपर्यस्तमतयः पाषण्डिकोत्थानेनोस्थिताः परमार्थमजानाना अभिगिझंति'त्तिआभिमुख्येन लुभ्यन्ते' लोभवशगा भवन्तीत्यर्थः।
तथा एके केचनसाम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः 'अभिझंझ'त्ति झञ्झा-तृष्णातदातुराः सन्तोऽर्थेष्वत्यर्थंलुभ्यन्ते, यतएवमतोऽदःस्थानामनार्यानुष्ठानपरत्वादनार्य महापुरुषानुचीर्णन भवति, तथान विद्यते केवलमस्मिन्नित्यकेवलम्-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णत्वादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमनैयायिकम्-असन्यायवृत्तिकमित्यर्थः, तथा रगेलगेसंवरणे' शोभनं लगन-संवरणंइन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्लगत्वं न विद्यते सल्लगत्वमस्मिन्नित्यसलगत्वम् इन्द्रीयासंवरणरूपमित्यर्थः।
यदिवा शल्यवच्छल्यं-मायानुष्ठानमकार्यं तद्गायति कपयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगत्वमिति, तथा न विद्यते सिद्धेः-मोक्षस्य विशिष्ठस्थानोपलक्षितस्य मार्गो यस्मिंस्तदसिद्धिमार्ग,तथान विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणायामार्गः-सम्यग्दर्शनज्ञानचारित्रात्मकोयस्मिंस्तदमुक्तिमार्ग, तथानविद्यते परिनिर्वृतेः-परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः-पन्था यस्मिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते सर्व दुःखाना-शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुतएवंभूतंतत्स्थानमित्याशङ्कयाह__“एगंते त्यादि, एकान्तेनैवतत्स्थानंयतोमिथ्याभूतं-मिथ्यात्वोपहतबुद्धीनांयतस्तद्भवत्यत एवासाधु असवृत्तत्वात्, न ह्ययं सत्पुरुषसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । तदयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org