________________
श्रुतस्कन्धः - २, अध्ययनं - २,
३५३
इत्यादि, तथा वसलग त्ति वृषला - अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकाः, तथा 'कृपणाः' क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति - प्रव्रज्यां गृह्णन्तीति । साम्प्रतमेषामगारिकाणामत्यन्तविपर्यस्तमतीनामसद्वृत्तमाविर्भावयन्नाह ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव ‘जीवितं’ परापवादोद्घट्टनजीवंति 'धिग्नीवितं' कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृंहन्ति, एतदेवासदवृत्तजीवितं प्रशंसन्तीति भावः । ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्यार्थस्य साधनम् - अनुष्ठानं 'किञ्चिदपि ' स्वल्पमपि 'श्लिष्यन्ति' समाश्रयन्ति, केवलं ते परान् साधून वागादिभिरनुष्ठानैर्दुखयन्ति पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा तत्कुर्वन्ति येनाधिकं शोचन्ते, परानपि शोचयन्ति - दुर्भाषितादिभिः शोकं चोत्पादयन्ति, तथा ते परान् 'जूरयन्ति' गर्हन्ति, तथा तिप्यन्ति - सुखाच्यावयन्त्यात्मानं परांश्च, तथा ते वराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीड्यन्ते परांश्च पीडयन्ति, तथा ते पापेन कर्मणा परितप्यन्ते अन्तर्दह्यन्तेपरांश्च परितापयन्ति ।
तदेवं तेऽ सद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति । एवं भूताश्च सन्तस्ते महताऽऽरम्भेण प्राणिव्यापादनरूपेण तथा महात समारम्भेण प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां 'विरूपरूपैश्च' नानाप्रकारैः सावद्यानुष्ठानैः पापकर्मकृत्यैः 'उदारान्' अत्यन्तोद्भटान् समग्रसामग्रीकान् मधुमद्यमांसाद्युपेतान् 'मानुष्यकान्' मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्शयितुमाह-'तंजहे 'त्यादि तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि । सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेणपूर्वाह्णकर्तव्येनापरेण च - अपराह्णकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं तथा परं च यत् क्रियते विलोपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम्, इदमुक्तं भवति यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह- तद्यथा विभूत्या स्नातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि-अवतारणकादीनी मङ्गलानि च- सुवर्णचन्दनद ध्यक्षतदूर्वासिद्धार्थकादर्शकस्पर्शनादीनि तथा दुःस्वप्नादिप्रतिधातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुटश्च २ स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो-ढावयवकायो युवेत्यर्थः तथा 'वग्धारियं' ति प्रलम्बितं श्रोणीसूत्रं-कटिसूत्रं मल्लदामकलापश्च येन स तथा, तदेवमसौ शिरसिस्नातः नानाविधविलेपनावलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्तभूषणभूषितः सन्महत्याम्-उच्चायां 'भहालियाए 'त्ति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये' विस्तीर्णे 'सिंहासने' मद्रासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो' वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाट्यगीतवादित्रतत्रादिरवेणोदारान्मानुष्यद्वान् भोगभोगान्मुञ्जानो ‘विहरति’ प्रविचरति विजृम्मतीत्यर्थः।। तस्य च क्वचिठप्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयनो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, तेच किं कुर्वाणाः ?, एतद्वक्ष्यमाणमूचुः, तद्यथा-भण-आज्ञापय स्वामिन्! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगमं, यावध्धृ दयेप्सितमिति, तथा किंच 'ते' युष्माकम् 'आस्यकस्य' मुखस्य 'स्वदते' स्वादु प्रतिभाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org