________________
३५२
सूत्रकृताङ्ग सूत्रम् २/२/-/६६४ साम्प्रतमन्येन प्रकारेण पापोपादनमाह-अथैकः कश्चित्केनचितुखलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्संबन्धिन उष्ट्रादेः स्वयमेवआत्मनापरश्वादिना धूरीयाओ तिजवाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजानीते, इत्येवमसावात्मानं पापने कर्मणोपाख्यापयिता भवति॥किञ्च-अथैकः कश्चित्केनचिन्निमित्तेन गृहपत्यादेः कुपितस्तत्संबन्धिनामुष्ट्रादीनांशाला-गृहाणि 'कंटकबोंदियाए'त्तिकण्टकशाखाभिः 'प्रतिविधाय' पिहित्वा स्थगित्वा स्वयमेवाग्निना दहेत् । शेषं पूर्ववत् ॥ अपिच-अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेःसम्बन्धिकण्डलादिकंद्रव्यजातंस्वयमेवापहरेदवशिष्टंपूर्ववत|साम्प्रतंपाखणिडकोपरि कोपेन यत्कुर्यात्तद्दर्शयितुमाह-अथैकः कश्चित्स्वदर्शनानुरागेण वा वादपराजितो वाऽन्येन वा केनचिनिमित्तेन कुपितः सन्नेतत्कुर्यादित्याह-तद्यथा-श्राम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां केनचिदादानेन कुपितःसन् दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्ववत् ।
एवंतावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते-अथैकः कश्चित् दृढमूढतया 'नो वितिगिंछइ'त्ति 'नविमर्षति' न मीमांसते, यथाऽनेने कृतेन ममामुत्रानिष्टफलं स्यात्, तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापन्नश्च यत्किञ्चनकारितया इहपरलोकविरोधिनीः क्रियाः कुर्यात्, एतदेवोद्देशतो दर्शयति-तद्यथा-गृहपत्यादेर्निर्निमित्तमेवतत्कोपमन्तरेणैव स्वयमेवात्मनाऽग्निकायेन-अग्निनौषधीः-शालिव्रीह्यादिकाः मापयेत्-दहेत् तथाऽन्येन दाहयेद्दहन्तंचसमनुजानीयादित्यादि। तथेहामुत्रच दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसंबन्धिनांक्रमेलकादीनांजवादीनवयवांश्छिन्द्यात्॥तथा शालांदहेत्॥तथागृहपत्यादेः संबन्धि कुण्डलमणिमौक्तिकादिकमपहरेत् ॥
तथा श्रमणब्राह्मणादीनां दण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्य येऽभिहितास्त एव तदभावेनाभिधातव्या इति । साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽमिधीयन्ते-अथैकः कश्चिदभिगृहीतमिथ्याष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतांप्रविशतां वा स्वतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादनाभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति, एतदेवदर्शयति-'अथवे त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, क्वचित्साधुदर्शने सति मिथ्यात्वोपहतष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन्साधुमुद्दिश्यावज्ञया अप्सरायाः' चप्पुटिकायाःआस्फालयिता भवत्यथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात्, तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटिं विदध्यादसत्यं वा ब्रूयात्, तथा भिक्षाकालेनापि 'से' तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चाप्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादेर्नोदापयिता भवति, अपरंच दानोद्यतं निषेधयतितप्रत्यनीकतया, एतच ब्रूते-येइमे पाषण्डिका भवन्तित एवंभूता भवन्तीत्याह-'वोण्णन्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तद्वन्तः, तथा भारेणकुटुम्बभारेण पोट्टलिकादिभारेणवाऽऽक्रान्ताः-पराभग्नाः सुखलिप्सवोऽलसाः-क्रमागतंकुटुम्ब पालयितुमसमर्था ते पाषण्डव्रतामाश्रयन्ति, तथा चोक्तम्
गृहाश्रमपरो धर्मो, न भूतो न भविष्यति। ___ पालयन्ति नरा धन्याः, क्लीबाः पाषण्डमाश्रिताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org