________________
३४६
सूत्रकृताङ्ग सूत्रम् २/२/-/६६२ पूर्वेण यन्नाभिहितं तदनेनोत्तरग्रन्थेनप्रतिपाद्यत इति, चः समुच्चये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्ते-मृग्यन्तेविज्ञानद्वारेणान्वेष्यन्तेयेन सपुरुषविचयः पुरुषविजयो वा-केशाञ्चिदल्पसत्त्वानां तेनज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिनाविजयादिति, सच विभङ्गवद्-अवधिविपर्ययवद्विभङ्गोज्ञानविशेषःपुरुषविचयश्चासौविभङ्गश्चपुरुषविचयविभङ्गस्त-मेवंभूतं ज्ञानविशेषमाख्यास्यामिप्रतिपादायिष्यामि, यादृशानांचासौभवति ताल्लेशतःप्रतिपादयितुमाह-'इह खलु' इत्यादि, 'इह' जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात्प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षटस्थानपतिता भवन्ति ।
तथा छन्दः-अभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा ननारूपा दृष्टि:अन्तःकरणप्रवृत्तिर्येषांतेतथा तेषामिति, तेषांचत्रीणिशतानी त्रिषष्ठधिकानिप्रमाणमगवन्तव्यं, तथा नाना रूचिर्येषां ते नानारुचयः, तथाहिं-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु मध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां-कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृपितानामिदंनानाविधंपापश्रुताध्ययनंभवति, तद्यथा-भूमौ भवं भौम-निर्धातभूकम्पादिकं, तथोत्पातं-कपिहसितादिकं, तथास्वप्नं-गजवृषभसिंहादिकं, तथाऽन्तरिक्षम्-अमोधादिकं, तथा अङ्गेभवमानम्-अक्षिबाहुस्फुरणादिकं, तथास्वरलक्षणं-काकस्वरगम्भीरस्वरादिकं, तथा लक्षणंयवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जनं-तिलकमषादिकं, तथा स्त्रीलक्षणंरक्तकरचरणादिकं एवं पुरुषादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरिज्ञानमवगन्तव्यम् ॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा-दुर्भगमपि सुभगाकरोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरां, तथा गर्भकरां-गर्भाधानविधायिनी, तथा मोहो-व्यामोहो वेदोदयो वातत्करणशीलामाथर्वणीमाथर्वणाभिधानांसद्योऽनर्थकारिणी विद्यामधीयते, तथापाकशासनीम् इन्द्रजालसंज्ञिकांतथानानाविधैर्द्रव्यैः-कणवीरपुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकैः कार्यहोमोहवनंयस्यांसाद्रव्यहवनातां, तथा क्षत्रियाणां विद्याधनुर्वेदादिकाऽपरावायास्वगोत्रक्रमेणायात। तामधीत्य प्रयुञ्जते,तथानानाप्रकारंज्योतिषमधीत्य व्यापायतीतिदर्शयति-चंदचरियमित्यादि, चन्द्रस्य-ग्रहपतेश्चरितं चन्द्रचरितमिति, तच्चवर्णस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकं, सूर्यचरितं त्विदं-सूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकं, तथा शुक्रचारो-वीथीत्रयचारादिकः,तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषुमण्डलेषु भवन्तः शस्त्राग्निक्षुत्पीडाविधायिनो भवन्ति ।
___ तथा मृगा-हरिणशृगालादय आरण्यास्तेषां दर्शनरूतं ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रं, तथा वायसादीनां पक्षिणां यत्र स्थानदिक्स्वराश्रयणात् शुभाशुभफलं चिन्त्यतेतद्वायसपरिमण्डलं, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदायत्रशास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यः, ताश्चेमाः-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, साचकिल कतिभिर्जपैर्दण्डमुत्थापयति, तथाऽर्धवैताली तमेवोपशमयति, तथाऽपस्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org