________________
श्रुतस्कन्धः-२, अध्ययनं-२, दिगुणोपेतः, एवमात्मानंसमुत्कर्षयेदिति।साम्प्रतंमानोत्कर्षविपाकमाह-'देहचुए' इत्यादि, तदेवं जात्यादिमदोन्मत्तः सन्निहैवलोके गर्हितो भवति, अत्रच जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति-जातिमदः कस्यचिन्न कुलमदः,अपरस्य कुलमदो नजातिमदः, परस्योभयम, अपरस्यानुभयमित्येवं पदत्रयेणाष्टी चतुर्भिः षोडशेत्यादियावदष्टभिः पदैः षट्पंचाशदधिकंशतद्वयमिति, सर्वत्र मदाभावरूपश्चरमभङ्गः शुद्ध इति।।
परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते-स्वायुषः क्षये देहाच्चुतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः-परतन्त्रः प्रयाति, तद्यथा-गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेषूत्पद्यमानः पुनरगर्भाद्गर्भमेवमगर्भादगर्भम् एतच्च नरककल्पगर्भदुःखापेक्षाया मभिहितम्, उत्पद्यमानदुःखापेक्षया त्विदमभिधीयते-जन्मन एकस्मादपरं जन्मांतरं व्रजति, तथा मरणं मारस्तस्मान्मारान्तरं व्रजति, तथा नरकदेश्यात्श्वपाकादिवासाद्रत्न- प्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुध्धृत्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति ।
तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीपुंनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति तथा स्तब्धश्चपलो यत्किञ्चकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति । तदेवं 'तप्रत्ययिकं' माननिमित्तं सावधं कर्म 'आधीयते' सम्बध्यते । नवममेतक्रियास्थानमाख्यातमिति।
मू. (६५८) अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे माईहिं वा पितीहिं वाभाईहिं वाभइणीहिं वा भजाहिं बाधूयाहिं वा पुत्तेहिं वासुण्हाहिं वा सद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसि सयमेव गुरुयं दंडं निवत्तेति।
तंजहा-सीओदगवियउंसि वा कायं उच्छोलित्ता भवति, उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति, अगनिकाएणं कायं उवडहित्ता भवति, जोत्तेण वा वेत्तेण वा नेत्तेण वा तयाइ वा कण्णेण वा छियाए वा लयाए वा अनयरेण वा दवरएण पासाइं उद्दालित्ता भवति, दंडेणवाअट्ठीण वा मुट्ठीण वा लेलूण वाकवालेण वाकायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति ।
तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरक्कडे अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसियावि भवति, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए।
वृ. अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पोमातापितृसुहृत्स्वजनादिभिः सार्धं परिवसंस्तेषांचमातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लधुतमेऽप्यपराधे वाचि दुर्वचनादिके तथा कायिके हस्तपादादिके संघट्टनरूपे कृते सति स्वयमेव-आत्माना क्रोधाध्मातो गुरुतरं दण्डं' दुःखोत्पादकं निवर्तयति' करोति, तद्यथाशीतोदके 'विकटे' प्रभूते शीते वा शिशिरादौ 'तस्य' अपराधकर्तु कायमधो बोलयिता भवति, तथोष्णोदकविकटेन 'काय' शरीरमपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतैलेन काञ्जिकादिना वाकायमुपतापयिता भवति, तथा अग्निकायेन उल्मुकेन तप्तायसावा कायमुपदाहयिता भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org