SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् २/२/-/६५६ मू. (६५६) अहावरे अट्ठमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे नत्थि णं केइ किंचि विसंवादेति सयमेव हीने दीने दुट्ठे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविट्टे करतलपल्हत्थमुह अट्ठज्झाणोवगए भूमिगयदिट्टिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एवमाहिज्जइ - तं० कोहे माने माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, अट्ठमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिए। ३३८ वृ. अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति - अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोत्प्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता- न तस्य कश्चिद्विसंवादेन परिभावने वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वर्णापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया मनः संकल्पो यस्य स तथा, तथा चिन्तैव शोक इति वा ( स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा भूतश्च यदवस्थो भवति तद्दर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतया धर्मध्यानाद्दूरवर्ती निर्निमित्तमेव द्वन्द्वोपहतवद्धयायति तस्यैवं चिन्ताशोकसागरवगाढस्य सत आध्यात्मिकानि - अन्तःकरणोद्भवानि मनः संश्रितान्यसंशितानि वा-निसंशयानि चत्वारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथाक्रोधस्थानं मानस्थानं मायास्थानं लोभस्थानमिति । ते चावश्यं क्रोधमानमायालोभा आत्मनोऽधि भवन्त्या ध्यात्मिकाः, एभिरेव सद्भिर्दुष्टं मनो भवति । तदेवं तस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमनःसंकल्पस्य 'तव्प्रत्ययिकम्' अध्यात्मनिमित्तं सावद्यं कर्म 'आधीयते' संबध्यते तदेवमष्टममेतक्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति । मू. (६५७) अहावरे नवमे किरियट्ठाणे माणवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेति निंदेति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए, अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए । एवं अप्पाणं समुक्कस्से, देहचुए कम्मबितिए अवसे पयाइ, तंजहा - गब्माओ गब्धं ४ जम्माओ जम्मं माराओ मारं नरगाओ नरगं चंडे थद्धे चवले माणियावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्रंति आहिज्जइ, नवमे किरियाठाणे माणवत्ति एत्ति आहिए । वृ. अथापरं नवमं क्रियास्थानंमानप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपःश्रुतलाभैश्चर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुद्धा हीलयति तथा निन्दति जुगुप्सते गर्हति परिभवति, एतानि चैकार्थिकानि कथञ्चिद्भेदं वोव्प्रेक्ष्य व्याख्येयानीति । यथा परिभवति तथा दर्शयति-इतरोऽयं जघन्यो हीनजातिकः तथा मत्तः कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति । अहं पुनर्विशिष्टजातिकुलबला - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy