SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं-२, ३३७ वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवइ दिट्ठिविपरियासियादंडे, एवं खलु तस्सतप्पत्तियंसावजंतिआहिज्जइ, पंचमे दंडसमादाणे दिट्ठिविपरियासियादंडवत्तिएत्ति आहिए। वृ.अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः-चारभट्टादिको मातृपितृभ्रातृभगिनीभार्यापुत्रदुहितृस्नुषादिभि सार्धं 'वसन्' तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो 'हन्यात्' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्वं भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् । पुनरप्यन्यथा तमेवाह-‘से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमभ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं तेन' भ्रान्तमनसा वभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु तस्य दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति॥ मू. (६५४) अहावरे छठे किरियट्ठाणे मोसावत्तिएत्ति आहिजइ, से जहानामए केइ पुरिसे आयहेउं वा नाइहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति अन्नेनवि मुसं वाएइमुसंवयंतंपिअन्नंसमणुजाणइ, एवंखलुतस्स तप्पत्तियंसावजंतिआहिज्जइ, छटेकिरियट्ठाणे मोसावत्तिएत्ति आहिए। वृ. अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपघातो भवतीतिकृत्वा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिह्नवरूपमसद्भूतोद्भावनस्वभावं वा स्वयमेव मृषावादं वदति, तद्यथा-नाहं मदीयो वा कश्चिच्चौराः, स च चौरमपिसद्भूतमप्यर्थमपलपति, तथापरमचौरंचौरमितिवदति, तथाऽन्येन मृषावादंभाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते। तदेवंखलुतस्य योगत्रिककरणत्रिकेणमृषावादंवदतस्तप्रत्ययिकंसावधंकर्म आधीयते' सम्बध्यते तदेतत्षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यातमिति ॥ मू. (६५५) अहावरे सत्तमे किरियट्ठाणे अदिनादाणवत्तिएत्तिआहिज्जइ, सेजहानामए केइ पुरिसे आयहेउवा जाव परिवारहेउंवा सयमेव अदिन्नं आदियइ अन्नेनवि अदिन्नं आदियावेति अदिन्नंआदियंतंअनसमणुजाणिइ, एवंखलुतस्सतप्पत्तियंसावनंतिआहिज्जइ, सत्तमेकिरियट्ठाणे अदिनादाणवत्तिएत्ति आहिए। वृ.अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयं, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेद्गृहणन्तमप्यपरंसमनुजानीयादित्येवंतस्यादत्तादानप्रत्ययिकं कर्मसम्बध्यते । इतिसप्तमं क्रियास्थानमाख्यातमिति 222 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy