________________
३३६
सूत्रकृताङ्ग सूत्रम् २/२/-/६५१ अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते इत्येतत्तृ तीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति।
मू. (६५२) अहावरे चउत्थे दंडसमादाणेअकस्मात् दण्डवत्तिएत्तिआहिजइ, से जहानामए केइपुरिसे कच्छंसि वाजाव वणविदुग्गंसिवा मियवत्तिएमियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउंअन्नयरस्स मियस्स वहाए उसुंआयामेत्ताणंनिसिरेज्जा, समियंवहिस्सामित्तिकट्ठतित्तिरंवा वट्टगंवा चडगंवा लावगंवा कवोयगंवा कविवा कविंजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे।
से जहानामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा रालाणि वा निलिजमाणे अन्नयरस्स तणस्स वहाए सत्यं निसिरेजा, से सामगं तणगं कुमुदुर्ग वीहीउसियंकलेसुयंतणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोहवं वा कंगुंवा परगंवा रालयं वा छिंदित्ता भवइ, इतिखलु से अनस्स अट्ठाए अनं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए।
वृ. अथापरं चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते, इह चाकस्मादित्ययं शब्दोमगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इतितदिहापि तथाभूत एवोच्चरित इति। तद्यथा नामकश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावद्वनदुर्गेवा गत्वामृगैः-हरिणैराटव्यपशुभिवृत्ति-वर्तनं यस्य समृगवृत्तिकः, सचैवंभूतो मृगेषुसंकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति-मृगेषुप्रणिधानम्-अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः-क्व मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थं कच्छादिषु गन्ता भवति, तत्र च गतः सन् द्रष्ट मृगानेते मृगा इत्येवं कृत्वा तेषां मध्येऽन्यतरस्य मृगस्य वधार्थम् ‘इषु' शरं 'आयामेत्त'त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति-यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान्, स च तेनेषुणा तित्तिरादिकंपक्षिविशेषव्यापादयिता भवति, तदेवंखल्वसावन्यस्यायनिक्षिप्तोदण्डोयदाऽन्यं 'स्पृशति' घातयति सोऽकस्माद्दण्ड इत्युच्यते ।
____ अधुना वनस्पतिमुद्दिश्याकम्माद्दण्डमाह-‘से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवलादि शाल्यादेः-धान्यजातस्य 'श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थं 'शस्त्रं' दात्रादिकं निसृजेत्, स च श्यामादिकं तृणं छेत्स्यामीतिकृत्वाऽ-कस्माच्छालिंवायावत्रालकंवा छिन्द्याद्रक्षणीयस्यैवासावकस्माच्छेत्ता भवति, इत्येवमन्यस्याय-अन्यकृतेऽन्यं वा 'स्पृशति' छिनत्ति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्शयति, तदेवं खलु ‘तस्य' तत्कर्तु तत्प्रत्ययिकम्' अकस्माद्दण्डनिमित्तं “सावद्य' मिति पापम् ‘आधीयते' सम्बध्यते, तदेतच्चतुर्थदण्डसमादानकमस्माद्दण्ड-प्रत्ययिकमाख्यातमिति
मू. (६५३) अहावरे पंचमे दंडसमादाणे दिष्टिविपरियासियादंडवत्तिएत्ति आहिजइ, से जहानामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुव्वे भवइ टिट्ठिविपरियासियादंडे।
__से जहानामए केइ पुरिसे गामघायंसि वा नगरघायंसि वा खेडे० कब्बड० मडंबघायंसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org