________________
श्रुतस्कन्धः - २, अध्ययनं - २,
३३५
तस्य परिबृंहणम्-उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं नो तस्य शरीरस्य किमपि परित्राणाय 'तत्' प्राणव्यपरोपणं भवति ।
इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिकाविकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता अन्यतराङ्गावयवविकर्तनतः तथ विलुम्पयिता अक्ष्युतपाटनचर्मविकर्त्तनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवद्वाःअज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तवमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽनर्थदण्डो भवति तथा प्रतिपादितम्, अधुना स्थावरानधिकृत्योच्यते'सेज' त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति -
'जे इमे' इत्यादि, ये केचन 'अमी' प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा-इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिक्कडा ममानयाप्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनि रपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किञ्चित्परित्राणं भविष्यतीति, केवलमेवमेवासौ वनस्पतिं हन्ता छेत्तेत्दि यावज्जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः ॥ साम्प्रतमग्न्याश्रितमाह- 'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया कच्छादिकेषु दशसु स्थानेषु वनदुर्गपर्यन्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनोर्ध्वाधः स्थानि कृत्वा 'अग्निकायं' हुतभुजं 'निसृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवार्थं 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते ।
तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य यत्किञ्चनकारिणः 'तत्प्रत्ययिकं' दवदाननिमित्तं 'सावद्यं कर्म' महापातकमाख्यातम्, एतच्च द्वितीयमनर्थदण्डसमादानमाख्यातमिति तृतीयमधुना व्याचिख्यासुराह
मू. (६५१) अहावरे तचे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिंसु वा हिंसइ वा हिंसिस्सइ वा तं दंडं तसथावरेहिं पाणेहिं सयमेव निसिरति अन्नेनवि निसिरावेति अन्नंपि निसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावज्रंति आहिज्जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिए ॥
वृ. अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् 'पुरुषः' पुरुषकारं वहन् स्वतो भरणभीरुतया वा मामयं घातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं ममीकारोपेतं परशुरामवत्कार्तवीर्यं जघानान्यं वा कञ्चनायं सर्पसिंहादिर्व्यापादयिष्यतीति मत्वा सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यपश्वादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिंसिष्यतीत्येवं संभाविते त्रसे स्थावरे वा 'तं दण्डं' प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org