SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० सूत्रकृताङ्ग सूत्रम् २/२/-/६५८ तथा योत्रेण वा वेत्रेणे वा नेत्रेण वा 'त्वचा वा' सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः 'तस्य' अपराधकर्तु 'शरीरपाश्र्वाणि उद्दालयितुं' ति चर्माणि लुम्पयितुं भवति, तथा दण्डादिना कायमुपताडयिता भवतीति। तदेवमल्पापराधनिन्यति महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्भनसस्तदनिष्टाशङ्कया भवन्ति, तस्मिंश्च 'प्रवसति' देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति । तथाप्रकारश्चपुरुषजातोऽल्पेऽप्यपराधेमहान्तं दण्डं कल्पयतीति, एतदेवदर्शयितुमाहदण्डस्य पार्वं दण्डपावं तद्विद्यते यस्यासौ दण्डपार्वी स्वल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति । तमप्यतिगुरुमिति दर्शयितुमाह-दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरुस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्य परेषां च अस्मिन्लोके' अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात्, तथापरस्मिन्नपि जन्मन्यसावहितः, तच्छीलतयाचासौ यस्य कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, सचात्यन्तक्रोधनो वधबन्धविच्छेदादिषु शीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतयामर्मोदघट्टनतः पृष्ठिमांसमपिखादेत्तत्तदसौ ब्रूयात्येनासावपि परः संज्वलेत् ज्वलितश्चान्येषामपकुर्यात्, तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतद्दशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति। अपरेपुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमंतुपरदोषप्रत्ययिक, दशमं पुनः प्राणवृत्तिकं क्रियास्थानमिति ॥ मू. (६५९)अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिजइ, जे इमे भवंतिगूढायारातमोकसिया उलुगपत्तलहुयापव्वयगुरुयातेआयरियाविसंता अनारियाओभासाओवि पउज्जंति, अन्नहासंतं अप्पाणं अन्नहा मन्नति, अन्नं पुट्ठा अनं वागरंति, अनं आइक्खियव्वं अनं आइक्खंति। से जहानामए केइ पुरिसे अंतोसल्ले तं सल्लं नो सयं निहरति नो अन्नेण निहरावेति नो पडिविद्धंसेइ, एवमेव निण्हवेइ, अविउट्टमाणेअंतोअंतोरियइ, एवमेवमाईमायंकट्ठनो आलोएइ णो पडिक्कमेइ नो जिंदइ नो गरहइ नो विउट्टइ नो विसोहेइ नो अकरणाए अब्भुट्टेइ नो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ। माई अस्सिं लोए पञ्चायाइ मानि परंसि लोए पञ्चायाइ निंदइ गरहइ पसंसइ निश्चरइ न नियट्टइ निसिरियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए। वृ. अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा-ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः ?-गूढ आचारो येषां ते गूढाचाराः-गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरूपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् । ते च मायाशीलत्वेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकाषिणस्त एव च काषिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः। तेचस्वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपिपर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, तेचाऽऽर्यदेशोत्पन्ना अपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy