SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - २, ३३३ रोत्तर शुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोगतयो वर्तन्ते । इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पश्चात्सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यर्हितत्वात्पूर्वं धर्मस्थानमुपशमनस्थानं च प्रदर्शितं, पश्चात्तद्विपर्यस्तमिति । साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृत्त्याऽऽदावेव स्थानं भवति तदधिकृत्याह - 'तत्थ णं' इत्यादि, तत्रेति वाक्योपन्यासार्थे णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्ठेयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विभङ्गो - विभागो विचारस्तस्यायमर्थ इति । ‘इह' अस्मिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन 'मनुष्याः ' पुरुषाः, ते चैवंभूता भवन्तीत्याह, तद्यथा- आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः तद्विपरीताश्चानार्या एके केच न भवन्ति यावद्दूरूपाः सुरूपाश्चेति । तेषां च' आर्यादीनाम् 'इदं' वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः पापोपादानसंकल्पस्तस्य समादानं-ग्रहणं 'संपेहाए' त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति- 'तंज' त्यादि, तद्यथा-नारकादिषु, ये चान्ये तथाप्रकारास्तभेदवर्तिनः सुवर्णदुर्वर्णादयः 'प्राणाः' प्राणिनो विद्वांसो वेदना-ज्ञानं तद् 'वेदयन्ति' अनुभवन्ति, यदिवा सातासातरूपां वेदनामनुभवन्तीति । अत्र चत्वारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च १ सिद्धास्तु विदन्ति नानुभवन्ति २ असंज्ञिनोऽनुभवन्ति न पुनर्विदन्ति ३ अजीवास्तु न विदन्ति नाप्यनुभवन्तीति ४, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, 'तेषांच' नारकतिर्यङ्गनुष्यदेवानां तथाविधज्ञानवताम् 'इमानि' वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति । कानि पुनस्तानीति दर्शयितुमाह- 'तंज' त्यादि, तद्यथेत्ययमुदाहरणवाक्योपन्यासार्थः । 'आत्मार्थाय ' स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं १, तथाऽनर्थदण्ड इति निष्प्रयोजन मेव सावधक्रियानुष्ठानमनर्थदण्डः २, तथा हिंसनं हिंसा प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः ३, तथाऽकस्माद् अनुपयुक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादन- मिति ४, तथा दृष्टेर्विपर्यासो- रज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविपर्यासदण्डः, तद्यथालेष्ठुकादि- बुद्या शराद्यमिधातेन चटकादिव्यापादनं ५, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिह्नवास- भूतारोपणरूपः ६, तथा अदत्तस्य परकीयस्या SSदानं स्वीकरणमदत्तादानं-स्तेयं तत्प्रत्ययिको दण्ड इति ७, तथाऽऽत्मन्यध्यध्यात्मं तत्र भव आध्यात्मिको दण्डः, तद्यथा-निर्निमितमेव दुर्मना उपहतमनः संकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठेते ८, तथा जात्याद्यष्टमदस्थानापहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति ९, तथा मित्राणामुपतापेन दोषो मित्रदोष- स्तव्प्रत्ययिको दण्डो भवति १०, तथा माया -परवञ्चनबुद्धिस्तया दण्डो मायाप्रत्ययिकः ११, तथा लोभप्रत्ययिको- लोभनिमित्तोदण्ड इति १२, तथा एवं पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्तस्येर्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति १३, एतच्च त्रयोदशं क्रियास्थानमिति । 'यथोद्देशस्तथा निर्देश' इतिकृत्वा प्रथमाक्रियास्थानादारभ्य व्याचिख्यासुराह मू. (६४९) पढमे दंडसमादाणे अट्ठादंडत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy