________________
३३२
सूत्रकृताङ्ग सूत्रम् २/२/-/६४७/ नि. [१६८] मोहादारभ्यसयोगिकेवलिनंयावदिति ५, सम्यक्त्वक्रियातुसम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते ६, सम्यङ्मिथ्यात्वक्रिया तु तद्योग्या- प्रकृतीश्चतुःसप्ततिसंख्या यया क्रियया बन्घाति साऽभिधीयते७, मिथ्यात्वक्रियातुसर्वाप्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहितायया बन्धातिसा मिथ्यात्वक्रियेत्वा मिधीयते८।
साम्प्रतं स्थाननिक्षेपार्थमाह-इयं च गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये जेगुणे सेमूलट्ठाणे' इत्यत्रस्थानशब्दस्यसूत्रस्पर्शिकनियुक्त्यांप्रबन्धेन व्याख्यातेति नेहप्रतन्यते। इहपुनर्या क्रिययायेन च स्थानेनाधिकारस्तदर्शयितुमाह-क्रियाणांमध्ये समुदानिका क्रिया या व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे 'तउत्ति अधिकारो व्यापारः, सम्यकप्रयुक्तेचभावस्थाने, तच्चेह विरतिरूपं संयमस्थानंप्रशस्तभावसंधनारूपंचगृह्यते, सम्यकप्रयुक्तभावस्थानग्रहणसा-मादर्यापथिकी क्रियापिगृह्यते, सामुदानिकाक्रियाग्रहणाच्चाप्रशस्तभावस्थानान्यपिगृहीतानि, आभिश्चपूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुपान् तद्वारायातान्प्रावादुकांश्च परीक्षेत सर्वानपीति ।
यथा चैवं तथा स्वत एव सूत्रकारः 'तंजहा-से एगइया मणुस्सा भवंती' त्यादिना तथा प्रावादुकपरीक्षायामपि 'नायओ उवगरणंच विप्पजहाय भिक्खायरियाए समुट्ठिया' इत्यादिना वक्ष्यतीति । गतो नियुक्त्यनुगमः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
मू. (६४८) सुयं मे आउसंतेणं भगवयाएवमक्खायं-इह खलु किरियाठाणे नामज्झयणे पन्नत्ते, तस्से णं अयमढेइह खलु संजूहेणं दुवे ठाणे एवमाहिजंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चेव अनुवसंते चेव ॥
तत्थ णंजे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्सणं अयमढे पन्नत्ते, इह खलु पाईणं वा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अनारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णावेगे दुब्वण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसिंचणं इमंएतारूवंदंडसमादाणं संपेहाएतंजहा-नेरइएसुवा तिरिक्खजोणिएसुवामणुस्सेसु वा देवेसुवा जे यावन्ने तहप्पगारापाणा विनू वेयणं वेयंति।
तेसिं पियणंइमाइंतेरस किरियाठाणाइंभवंतीतिमक्खायं, तंजहा-अट्ठादंडे १ अणट्ठादंडे २ हिंसादंडे ३ अकम्हादंडे ४ दिट्ठीविपरियासियादंडे ५ मोसवत्तिए ६ अदिन्नादाणवत्तिए ७ अज्झत्यवत्तिए ८मानवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए
वृ.सुधर्मस्वामीजम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मताभगवतैवमाख्यातम्-इह खलु क्रियास्थानं नामाध्ययनं भवति, तस्य चायमर्थ-इह खलु 'संजूहेणं ति सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा-धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेत्तं धर्म्य विपरीतमधऱ्या, कारणशुद्धा च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपशमप्रधाने धर्मस्थाने धर्म्यस्थाने वाकेचन महासत्त्वाः समासन्नोत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org