________________
श्रुतस्कन्धः- २, अध्ययनं-२,
३३१ तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः ।
तद्यथा-भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रीयास्थानानि-कर्मबन्धकारणानि सम्यक् परिहर्तव्यानि, तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि, इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्विमोक्षश्चेति । नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयनियुक्तिकृदाहनि. [१६५] किरियाओ भणियाओ किरियाठाणंति तेन अज्झयणं ।
अहिगारोपुण भणिओ बंधे तह मोक्खमग्गे य॥ नि. [१६६] दव्वे किरिएजणया यपयोगुवायकरणिज्जसमुदाने ।
इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ।। नि. [१६७] नामं ठवणा दविए खेत्तेऽद्धा उड्ड उवरती वसही।
संजमपग्गहजोहे अचलगणणसंधणा भावे ।। नि. [१६८] समुदाणियाणिह तओ संमपउत्ते य भावठाणंमि।
किरियाहिं पुरिस पावाइए उ सव्वे परिक्खेज्जा ॥ वृ.तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणत्वेनाऽऽवश्यकान्तवर्तिनि प्रतिक्रमणाध्ययने 'पडिक्कमामि तेरसहिं किरियाठाणेहिं ति अस्मिन्सूत्रेभिहिताः । यदिवा इहैव क्रियाः 'भणिता' अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते। तच्च क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्बध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनरभिहितो बन्धे तथा मोक्षमार्गे चेति । तत्र नामस्थापने सुगमत्वादनाध्त्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह -
तत्र द्रव्ये-द्रव्यविषये या क्रिया एजनता 'एजूकम्पने' जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्यक्रिया, सापि प्रयोगाद्विनसया वा भवेत्, तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वाअक्षिनिमेषमात्रादिका सासर्वा द्रव्यक्रियेति। भावक्रियात्वियं, तद्यथा-प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्यापथक्रिया सम्यक्त्वक्रिया सम्यमिथ्यात्वक्रिया मिथ्यात्वक्रिया चेति।
तत्र प्रयोगक्रियामनोवाकायलक्षणा त्रिधा, तत्रस्फुरद्भिर्मनोद्रव्यरात्मन उपयोगोभवति, एवं वाक्काययोरपि वक्तव्यं, तत्र शब्दे निष्पाद्ये वाक्काययोद्वयोरप्युपयोगः, तथाचोक्तम्।"गिण्हइ यकाइएणं निसिरइतह वाइएणजोगेण" गमनादिका तु कायक्रियैव १, उपायक्रिया तुघटादिकं द्रव्यंयेनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्चक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः क्रियतें सा सर्वोपायक्रिया २, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि-घटोमृत्पिण्डादिकयैव सामग्र्या क्रियतेन पाषाणसिकतादिकयेति ३, समुदानक्रियातुयत्कर्मप्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतयायया व्यवस्थाप्यते सा समुदानक्रिया, साच मिथ्याटेरारभ्य सूक्ष्मसंपरायं यावत्भवति ४,ईर्यापथक्रिया तूपशान्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org