SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२६ सूत्रकृताङ्ग सूत्रम् २/१/-/६४७ विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रमात्रावृत्तिना धर्मेणानुष्ठितेन इतः' अस्माद्भवाच्युतस्य प्रेत्य' जन्मान्तरेस्यामहदेवः, तत्रस्थस्य चमेवशवर्तिनः कामभोगा भवेयुः अशेषकर्मवियुतो वा सिद्धोऽदुःखः शुभाशुभकर्मप्रकृत्य- पेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसांनविदध्यादिति, यदिवा विशिष्टतपश्चर-णादिनाऽऽगामिनि काले ममाणिमालधिमेत्यादिकाऽटप्रकारा सिद्धिर्भविष्यतीत्यनयाचसिद्धासिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणेच कारणमाह-“एत्थवि' इत्यादि, 'अत्रापि विशिष्टतपश्चरणे सत्यपिकुतश्चिन्निमित्ताद्दुष्प्रणिधानसद्भावेसति कदाचित्सिद्धि स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिस्यात्, तथाचोक्तम-"जेजत्तियाउहेऊभवस्सतेचेवतत्तियामोक्खे" इत्यादि।यदिवाऽत्राप्यणिमाद्यष्टगुणकारणेतपश्चरणदौ सिद्धिःस्यात्कदाचिच्चन स्यात्-तद्विपर्ययोऽपिवास्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुंयुज्यते इति, सिद्धिश्चाष्टप्रकारेयं-अणिमा १ लघिमा २ महिमा ३प्राप्ति४प्राकाम्यं ५ ईशत्वं६वशित्वं यत्रकामावसायित्वमिति ८,तदेवमैहिकार्थमामुष्मिका) कीर्तिवर्णश्लोकाद्यर्थचतपोन विधेयमिति स्थितम्॥साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेषाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूर्च्छितः' अगृद्धोऽनध्युपपन्नः, तथा राजनादिशब्देषुकर्कशेषुअद्विष्टः, एवंरूपरसगन्धस्पर्षेष्वपिवाच्यमिति पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह-विरए कोहाओ' इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगमं यावदिति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खु'त्ति, सभिक्षुर्भवतियोमहतः कर्मोपादानादुपशान्तः सत्संयमेवोपस्थितःसर्वपापेभ्यश्च विरतः प्रतिविरत इति । एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन त्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि 'नो' नैव स्वयं सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भ नारम्भन्त इतियावत्, तथा नान्यैः समारम्भयन्ते न चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति। साम्प्रतं कामभोगनिवृत्तिमधिकृत्याह-'जे इमे' इत्यादि, ये केचनामीकाम्यन्त इतिकामा भुज्यन्त इति भोगाः, तेच सचित्ता अचित्ता भवेयुः, तांश्च न स्वतो गृह्णीयाननाप्यन्येन ग्राहयेत् नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति ॥साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेधमधिकृत्याह-यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिकं,तच तत्पद्वेषनिह्नवमात्सर्यान्तरयाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीवत इति ॥ साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह-'से भिक्खू' इत्यादिस भिक्षुर्यत्पुनरेवंभूतमाहारजातंजानीयात् 'अस्सिंपढियाए'त्ति एतत्प्रतिज्ञया' आहारदान-प्रतिज्ञयायदिवा 'अस्मिन्पर्याये' साधुपर्याये व्यवस्थितमेकंसाधुंसाधर्मिकंसमुद्दिश्य कश्चिच्छ्रावकः प्रकृतिभद्रको वा साध्वाहारदानार्थं 'प्राणिनः' व्यक्तेन्द्रियान् ‘भूतानि त्रिकालभावीनि जीवान् आयुष्कवधरणलक्षणान् ‘सत्त्वान् सदासत्त्वोपेतान् समारभ्य तदुपमर्दकमारम्म विधाय 'समुद्दिश्य' तत्पीडां सम्यगुद्दिश्य, क्रीतं क्रमेवणद्रव्यविनिमयेन 'पामिच्छति उद्यतकम् 'आच्छेद्य' मित्यन्य-स्मादाच्छिद्य 'अनिसृष्ट मितिपरेणानुत्संकलितम् अभ्याहृतमिति साध्वभिमुखं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy