________________
श्रुतस्कन्धः - २, अध्ययनं - १,
३२५
वक्ष्यमाणैः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-दण्डेनास्थ्ना मुष्टिना 'लेलुना' लोष्ठेन 'कपालेन ' कर्परेण ‘आकोट्यमानस्य’ संकोच्यमानस्य हन्यमानस्यः कशादिभिः तर्ज्यमानस्याङ्गुल्यादिभिः ताड्यमानस्य कुड्यादावभिधातादिना परिताप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा ‘अपद्रव्यमानस्य' मार्यमाणस्य यावल्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथञ्चिदुभेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽ कुट्यमानानां यावल्लोमोत्खन- नमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पननं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति - साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या 'नाज्ञापयितव्या' बलात्कारेण व्यापारे न प्रयोक्तव्यः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः ।
सोऽहं ब्रवीमि एतत् न स्वमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति- 'जे अतीए' इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीता ये च विदेहेषु वर्तमानाः सीमन्धरादयोये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः 'अर्हन्तः' अमरासुरनरेश्वराणां पूजार्हा भगवन्त-ऐश्वर्यादिगु णकलापोतेताः सर्वेऽप्येवं ते व्यक्तवाचा 'आख्यान्ति' प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदि भाषन्ते, स्वत एव, न यथा बौद्धानां बोधिसत्त्वप्रभावात् कुड्यादिदेशनत इति, एवं प्रकर्षेण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वे प्राणा न हन्तव्या इत्यादि, 'एष धर्म' प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो 'ध्रुवः' अवश्यंभावी 'नित्यः' क्षान्त्यादिरूपेण इत्येवं च ‘अभिसमेत्य' केवलज्ञानेनावलोक्य 'लोकं' चतुर्दशरज्वात्मकं 'खेदज्ञैः' तीर्थकृद्भिः ‘प्रवेदितः’ कथित इत्येवं सर्वं ज्ञात्वा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति, एतदेव दर्शयितुमाह
'नो दंत' इत्यादि, इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहोनिष्किञ्चनः सन् साधुर्नो 'दन्तप्रक्षालनेन' कदम्बादिकाष्ठेन दन्तान् प्रक्षालयेत् तथा नो 'अञ्जनं' सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि कासाद्यपनयनार्थं तं धूमं योगवर्तिनिष्पादितमापिबेदिति । साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास्य क्रियासावद्या विद्यते इत्यक्रियः, संवृतात्मकतया सांपरायिककर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः - अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो अस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः-शीतीभूतस्तदुपशमाञ्च परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति ।
'नो आसंसं' इत्यादि, 'नो' नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवंभूतामाशंसां न पुरस्कुर्यादिति, एतदेव दर्शयितुमाह-'इमेण मे' इत्यादि, अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामर्षौषध्यादिना तथ पारलौकिकेन च श्रुतेनार्द्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन्, तथा 'मएण व'त्ति 'मन ज्ञाने' जातिस्मरणादिना ज्ञानेन, तथाऽऽचायदिः सकाशाद्विज्ञातेन- अवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org