SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - 9, ३२७ ग्रामादेरानीतम् ‘आहृत्य’” उपेत्य साध्वर्थं कृतमुद्देशिकमित्येवंभूतमाहारजातं साधवे दत्तं स्यात्, तञ्चाकामेन तेन परिगृहीतं स्यात्, तदेवं दोषदुष्टं च ज्ञात्वा स्वयं न भुञ्जीत नाप्यपरेण भोजयेत् न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाहारदोषान्निवृत्तो भिक्षुर्भवतीति । अथ पुनरेवं जानीयादित्यादि, तद्यथा- विद्यते तेषां गृहस्थानामेवंभूतो वक्ष्यमः 'पराक्रमः' सामर्थ्यमाहारनिर्वर्तनं प्रत्यारम्भस्तेनच यदाहारजातं निर्वर्तितं 'यस्य चार्थाय' यत्कृते तत् 'चेतित'मिति दत्तं निष्पादितं ‘स्याद्’ भवेत्, यत्कृते च तन्निष्पादितं तत्स्वनामग्राहमाह, तद्यथा-आत्मनः स्वनिमित्तमेवाहारदिपाकनिर्वर्तनं कृतमिति, तथा पुत्राद्यर्थं यावदादेशाय- आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेशः - प्राघूर्णकस्तदर्थं वा पृथक्प्रहेणार्थं विशिष्टाहारनिर्वर्तनं क्रियते । तथा श्यामा - रात्रिस्तस्यामशनमाशः श्यामाश्स्तदर्थं प्रातरशनं प्रातराशः - प्रत्यूषस्ये व भोजनं तदर्थं सन्निधिसंनिचयो विशिष्टाहार संग्रहस्य संचयः क्रियते । अनेन चैतत्प्रतिपादितं भवति - बालवृद्धग्लानादिनिमित्तं प्रत्युषादिसमयेष्वपि भिक्षटनं क्रियते, तस्य चायमभहितः संभवः, स च 'संनिधिसंचय' इहैकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत्, अत्र च परकृतपरनिष्ठिते चत्वारो भङ्गाः, तद्यथा-तस्य कृतं तस्यैव च निष्ठितं, तस्य कृतमन्यस्य निष्ठितम्, अन्यस्य कृतं तस्यैव निष्ठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितत्वात्, तत्राधाकर्मेद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्रीदूत्या- दिकाः षोडशैव तथैषणादोषाः शङ्कातादयो दश, एवमेभिद्विचत्वारिंशद्दोष रहितत्वाच्छुद्धं । तथा शस्त्रम् - अग्न्यादिकं तेनातीतं प्रासुकीकृतं 'शस्त्रपरिणामित' मिति शस्त्रेण स्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धसादिभिश्च परिणमितं, हिंसां प्राप्तं हिंसितं विरूपं हिंसितं विहिंसितं - न सम्यक् निर्जीवीकृतमित्यर्थः तत्प्रतिषेधादविहिंसितं, निर्जीवमित्यर्थः, तदप्येषितम्अन्वेषितं भिक्षाचर्याविधिना प्राप्तं, 'वैषिक' मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदानिकं' समुदानं भिक्षासमूहस्तत्र भवं सामुदानिकम्, एतदुक्तं भवति मधुकरवृत्त्याऽवाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राज्ञगीतार्थेनोपात्तमशनम् - आहारजातं, तदपि वेदनावैय्यावृत्त्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्रं, प्रमाणं चेदम् - 119 11 “अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छब्भागं ऊणयं कुज्जा ।। इति । एतदपि न वर्णबलाद्यर्थं किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षस्योपाञ्जनम् - अभ्यङ्गो व्रणस्य च लेपनं - प्रलेपस्तदुपमया आहारमाहरेत्, तथा चोक्तम्॥१॥ - "अब्मंगेण व सगडं न तरइ विगई विणा उ जो साहू । सो दोसरहिओ मत्ताए विहीइ तं सेवे ॥ एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy