________________
श्रुतस्कन्धः - २, अध्ययनं-१,
३१९ प्रथमंप्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतंपञ्चम्यन्तानीति।नचायमर्थस्तेन दुःखितेन 'एतमेवेतियथा प्रार्थितस्तथैव लब्धपूर्वोभवति, इदमुक्तंभवतिन हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति ।। एतदेव लेशतो दर्शयति-'इह' अस्मिन् खलु वाक्यालङ्कारेते कामभोगा अत्यन्तमभ्यस्तान 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितु- माह- पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः-प्राणी 'एकदा' व्याध्युत्पत्तिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाधुपद्रवे 'तान् कामभोगान् परित्यजति, सवापुरुषोद्रव्याद्यभावेतैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, सचैवमवधारयति-'अन्ये' मत्तोभिन्नाः खल्वमीकामभोगाः, तेभ्यश्चान्योऽहमस्मि। तदेवं व्यवस्थिते "किमित वयंपुनरेतेष्वनित्येषुपरभूतेष्वन्येषु कामभोगेषुमूल् कुर्म" इत्येवं केचन महापुरुषाः “परिसंख्याय' सम्यग् ज्ञात्वा कामभोगान् वयं विप्रजहिष्यामः' त्यक्ष्याम् इत्येवमध्यवसायिनो भवन्ति।
पुनरपरंवैराग्योत्पत्तिकारणमाह-'सेमेहावी' स 'मेघावी' सश्रुतिकः एतज्जानीयात्, तद्यथायदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकंदुःखपरित्राणायनभवतीत्युपन्यस्तंतदेतद्बााह्यतरं वर्तते, इदमेव चान्यद्वक्ष्यमाणम् ‘उपनीततरम्' आसन्नतरं वर्तते, तद्यथा-माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेघावी पूर्वमेवात्मनैवं समभिजानीयादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायीचासौस्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इह' अस्मिन भवे मम वर्तमानस्यानिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पद्येत ततोऽसौ तदुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत्, तद्यथा-इमंममान्यतरंदुःखातङ्कमुत्पन्नं परिगृहीत यूयमहमनेनोत्पन्नेन दुःखातङ्केन पीडयिष्यामीत्यतोऽमुष्मान्मां परिमोचयत यूयमिति, नचैतत्तेन दुःखितेन लब्धपूर्वं भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां दुःखमोचनायालमिति दर्शयितुमाह-'तेसिं वावी'त्यादि, सर्वं प्राग्वद्योजनीयं, यावदेवमेव नो लब्धपूर्वं भवतीति, किमित्येवं नोपलब्धपूर्वं भवतीत्याह -
'अन्नस्स दुक्ख'मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यहुःखमुत्पद्यते तदन्यस्य संबन्धि दुःखमन्यो-मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तस्मात्पुत्रादेदुखेनासह्येनात्यन्तपीडिताः स्वजना नापि तदुःखमात्मनि कर्तुमलं, किमित्येवमाशङ्कयाह-'अन्नेणकड'मित्यादि, अन्येन जन्तुना कषायवशगेन इन्द्रियानुकूलतया भोगाऽभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिनायत्कृतं कर्मतदुदयमन्यः प्राणीनो प्रतिसंवेदयति-नानुभवति, तदनुभवने ह्यकृतागमकृतनाशौ स्यातां, न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तम् - ॥१॥ “परकृतकर्मणि यस्मान कामति संक्रमो विभागो वा।
तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥ यस्मात्स्वकृतकर्मफलेश्वराजन्तवस्तस्मादेतद्भवतीत्याह-पत्तेय'मित्यादि, एकमेकंप्रति प्रत्येकं स्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org