________________
३२०
सूत्रकृताङ्ग सूत्रम् २/१/-/६४५
119 11
“एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥
इति, तथा प्रत्येकं क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते युज्यते परिग्रहस्वीकरणतया, तथा प्रत्येकं झंझाकलहस्तदग्रहणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमता मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्ति, साऽपि मन्दमन्दतरपटुपटुतरभेदाठप्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितत्वात्, तथा प्रत्येकमेव 'मन्त्र'त्ति मननं चिन्तनं पर्यालोचनमितियावत्, तथा प्रत्येकमेव 'विष्णु' त्तिविद्वान्, तथा प्रत्येकमेव सातासातरूपवेदना- सुखदुःखानुभवः, उपसंजिघृक्षुराह - 'इति खलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमन्यः प्रतिसंवेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगाः स्वजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्य तदुद्धरणेन त्राणाय - नत्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति ?, यतः पुरुष 'एकदा ' क्रोधादयादिकाले ज्ञातिसंयोगान् 'विप्रजहाति' परित्यजति, 'स्वजनाश्च न बान्धवा' इति व्यवहारदर्शनात्, ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-स्वसम्बन्धादुत्तारयन्ति ।
तदेवं व्यवस्थिते एतद्भावयेत्, तद्यथा - अन्ये खल्वमीज्ञातिसंयोगा मत्तो भिन्ना इत्वरा एभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैर्ज्ञातिसंयोगैर्मूर्च्छा कुर्म : ?, तेषु मूर्च्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' ज्ञात्वा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसायिनो विदितवेद्या भवन्तीति ।
साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेघावी' सश्रुतिक 'एतद्' वक्ष्यमाणं जानीयात्, तद्यथा - बाह्यतरमेतत् यज्ज्ञतिसंबन्धनम्, इदमेवान्यदुपनीततरम् - आसन्नतरं, शरीरावयवानांभिन्नज्ञातिभ्य आसन्नतरत्वात्, तद्यथा-हस्तौ ममाशोकपल्लवसध्शी तथा भूजौ करिकराकारौ पुरपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवितान्तकरौ यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमं, यावत्स्पर्शा स्पर्शनेन्द्रियं 'ममाति' ममीकरोति, याद्दङ्गे न ताद्दगन्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धित्वेन विवक्षितं यत्किमपि वयसः परिणामात्- कालकृतावस्थाविशेषात् 'परिजूरइ' त्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति तस्मिंश्च प्रतिसमयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्भ्रश्यति, तद्यथा - आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमरणेन प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि -यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु संधिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णात्त्वचश्छायातोऽपचीयते, अत्र च सनत्कुमारध्ष्टान्तो वाच्यः, तथा जीर्यति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम् -
119 11
"बाल्यं वृद्धिर्वयो मेघा त्वकचक्षुशुक्रविक्रमाः । दशकेषु निवर्तन्ते मनः सर्वेन्द्रियाणि च ॥
तथा च विशिष्टवयोहान्या 'सुसंघितः' सुबद्धः संधि- जानुकूर्परादिको 'विसंधिर्भवति'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International