________________
३१८
सूत्रकृताङ्ग सूत्रम् २/१/-/६४५ दीनि तानि परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति।
तथा तेषामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषुचार्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा तथाप्रकारेषुवा कुलेषु आगम्य' जन्म लब्ध्वाऽभिभूयच विषयकषायादीन् परीषहोपसर्गान्वा सम्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्वन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः तथा 'सतो' विद्यामानानपि वा एकेकेचन महासत्त्वोपेता 'ज्ञातीन्' स्वजनान्तथा 'उपकरणं च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण हित्वा' त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं च विप्रहाय भिक्षाचर्यायामेके केचनापगतस्वजनविभवाः समुत्थिताः ।
ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव-प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा-'इह' जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविव्रजिषुर्वा 'प्रवेदयति' जानात्येवं परिच्छिनत्ति, तद्यथा-'क्षेत्रं' शालिक्षेत्रादिकं वास्तु'खातोच्छ्रितादिकं हिरण्यं धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं' शालिगोधूमादिकं 'कांस्यं' कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरलमणिमौक्तिकानि “संखशिल'त्ति मुक्तशैलादिकाः शिलाः 'प्रवालं' विद्रुमं, यदिवा-'सिलप्पवालं'तिश्रिया युक्तंप्रवालं श्रीप्रवालंवर्णादिगुणोपेतं तथा रत्तरयणं'ति रक्तरलं-पद्मरागादिकंतथा 'सत्सारं शोभनसारमित्यर्थः शूलमण्यादिकं, तथा “स्वापतेयं रिक्थं द्रव्यजातं, सर्वभेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, तथा 'शब्दा' वेण्वादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः' कोष्ठपुटादयः 'रसा' मधुरादयः मांसरसादयो वा 'स्पर्शा' मृद्वादयः, एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थं प्रभविष्यामीत्येवं संप्रधार्य।
समेघावीपूर्वमेवात्मानं विजानीयाद् एवं पर्यालोचयेत्, तद्यथा-'इह' संसारे खलुशब्दोऽवधारणे, इहैव-अस्मिन्नेव जन्मनि मनुष्यभवेवा ममान्यतरदुखं-शिरोवेदनादिकं आतङ्कोवाऽऽशु जीवितापहारीशूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तःअप्रियःअशुभोऽमनोज्ञोऽवनामयतीत्यवनामः-पीडाविशेषकारी दुःखरूपोयदिवान मनागमनाक् 'मे' मम नितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्यापि परिहारार्थंच, 'नो' नैव शुभः, अशुभकर्मविपाकापादितत्वादिति । अत्र च यदुक्तमपि पुनरुच्यते तदत्यादरव्यापनार्थं तद्विशेषप्रतिपादनार्थं चेति, तदेवंभूतं दुःखं रोगातङ्क वा 'हन्त' इति खेदे भयात्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः ! कामभोगा यूयं मया पालिताः परिगृहीताश्चततो यूयमपीदंदुःखं रोगातङ्क वा परियाइयह'त्ति विभागशः परिगृहीत यूयम्, अत्यन्तपीडयोद्विग्नः पुनस्तदेव दुःखं रोगातकं वा विशेषणद्वारेणोच्चारयति-अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतभूतमवना-मकंवा दुःखमेवैतत् ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमुष्मान्मामन्यतरस्मादुःखाद्रोगातकाद्वा प्रतिमोचयत यूयम्, अनिष्टादिविशेषणानि तु पूर्ववद्व्याख्येयानि।
Jain Education International
ational
For Private & Personal Use Only
www.jainelibrary.org