________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः - १
२९
कारिणोऽज्ञानरूपात्तमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तंभवति, यदिवा-तमइवतमो-दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसित्वाद्यातनास्थानं तस्माद्-एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां रौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः ।
किमिति ? यतस्ते 'मन्दा' जडा मूर्खा, सत्यपि युक्त्युपपन्ने आत्मन्यसदभिनिवेशात्तदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दितेआरम्भे-व्यापारे निश्चयेन नितरांवा श्रिताःसंबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तज्जीवतच्छरीरवादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह-'पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तरोक्त श्लोको भूयोऽपि व्याख्यायते ।
__ येएते अकारकवादिन आत्मनोऽमूर्तत्वनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नाः तेषां य एष लोको' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यङ्मनुष्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः' कस्माद्धेतोः स्यात्?, न कथञ्चित्कुतश्चित्स्यादित्यर्थ, ततश्च हटेष्टबाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं-निकृष्टं यातनास्थानं यान्ति, किमिति?, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिश्रिताश्च ते इति अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहनि. [३४] को वेएई अकयं? कयनासो पंचहा गई नत्थि।
देवमणुस्सगयागइ जाईसरणाइयाणंच ।। वृ. आत्मनोऽकर्तुत्वात्कृतं नास्ति, ततश्चाकृतं को वेदयते ? , तथा निष्क्रियत्वे वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनुभूयेत तथा सत्यकृतागमकृतनाशापत्ति स्यात्, ततश्च एककृतपातकेन सर्वप्राणिगणोदुःखितः स्यात् पुण्येन च सुखी स्यादिति, नचैतद् इष्टमिष्टं वा, तथा व्यापित्वा- नित्यत्वाच्चात्मनः ‘पञ्चधा' पञ्चप्रकारा नारकतिर्यङ्मनुष्यामरमोक्षलक्षणा गतिर्न भवेत् ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्वपञ्चरात्रोपदेशनु-सारयमनियमाद्यनुष्ठानं, तथा ॥१॥ “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः।
जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः" इत्यादि सर्वमपार्थकमाप्नोति तथा देवमनुष्यादिषु गत्यागती न स्यातां, सर्वव्यापित्वादात्मनः, तथा नित्यवाच्च विस्मरणाभावा- जातिस्मरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणात् 'प्रकृति करोति पुरुष उपभुके इति भुजिक्रिया या समाश्रिता साऽपि न प्राप्नोति, तस्या अपि क्रियात्वादिति, अथ 'मुद्राप्रतिबिम्बोदय- न्यायेन भोग'इतिचेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाङ्मात्रत्वात्, प्रतिबिम्बोदयस्या पिच क्रियाविशेषत्वादेव, तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद्यत्किञ्चिदेतदिति । ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियः तथापि न तावन्मात्रेणा-स्माभिः सक्रियत्वमिष्यते, किं तर्हि ?, समस्तक्रियावत्त्वे सतीत्येतदाशङ्कय नियुक्तिकृदाहनि. [३५] न हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ ।
___ नादुद्धथोवदुद्धत्तणे नगावित्तणे हेऊ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org