________________
२८
सूत्रकृताङ्ग सूत्रम् १/१/१/१४ मात्मानमभ्युपगतवन्तस्ते निराक्रियन्ते तत्र यत्तैस्तावदुक्तम्-'यथा न शरीरादिन्नोऽस्यात्मे'ति, तदसङ्गतं, यतस्तत्प्रसाधकंप्रमाणमस्ति, तञ्चेदम्-विद्यमानकर्तृकमिदंशरीरम्, आदिमप्रतिनियताकारत्वात्, इह यद्यदादिमप्रतिनियताराकारंतत्तद्विद्यमानकर्तृकं दृष्टं,यथा घटः, यच्चाविद्यमानकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽऽकाशम्, आदिमप्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तेः, व्यापकनिवृत्ती व्याप्यस्य विनिवृत्तिरिति सर्वत्र योजनीयम्।
तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात्, यद्यदिह करणंतत्तद्विद्यमानाधिष्ठातृकं दृष्टं, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपत्ति यथाऽऽकाशस्य, हृषीकाणां चाधिष्ठाताऽऽत्मा, सचतेभ्योऽन्यइति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम्, आदानादेयसद्भावात्, इह यत्र यत्राऽऽदानादेयसद्भावस्तत्र तत्र विद्यमान आदाता-ग्राहको दृष्टः, यथा संदंशकायस्पिण्डयोस्तद्भिन्नोऽयस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाताग्राहः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत्, अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापितथैवस्यादितिधर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्कान विधेया, संसारिण आत्मनः कर्मणा सहान्योऽन्यानुबन्धतः कथञ्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् ‘नास्तिसत्त्वा औपपातिका' इति, तदप्ययुक्तं, यतस्तदहर्जातबालकस्य यःस्तनाभिलाषः सोऽन्यामिलाषपूर्वकः, अभिलाषत्वात्, कुमाराभिलाषवत्, तथा बालविज्ञानमन्यविज्ञानपूर्वकं, विज्ञानत्वात्, कुमारविज्ञान वत्।
तथाहि-तदहर्जातबालकोऽपियावत्स एवायंस्तन इत्येवंनावधारयतितावन्नोपरतरुदितो मुखमर्पयतिस्तने इति, अतोऽस्ति बालके विज्ञानलेशः, सचान्यविज्ञानपूर्वकः, तश्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सत्त्व औपपातिक इति । तथा यदभिहितं 'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती'ति, तत्राप्ययमों-'विज्ञानधनो विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थाये'ति प्राक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तद्द्वारेण स्वकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारेण विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तैरेव सह विनश्यतीति।।
तथा यदुक्तं-'धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव'इति, तदप्यसमीचीनं, यतो धर्मीतावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिरवसेया जगद्वैचित्र्यदर्शनाच्च । यत्तु स्वभावमाश्रित्योपलशकलं दृष्टान्तत्वेनोपन्यस्तं तदपि तद्भोक्तृ कर्मवशादेव तथा तथा संवृत्तमितिदुर्निवारः पुण्यापुण्यसद्भावइति।येऽपिबहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोऽभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतव्यतिरिक्तस्य परलोकयायिनः सूरभूतस्य साधितत्वात्केवलं भवतो वाचालतां प्रख्यापयन्ति इत्यलमतिप्रसङ्गेन शेषं सूत्रं विव्रियतेऽधुनेति।
तदेवं तेषां भूतव्यतिरिक्तात्मनिह्नववादिनांयोऽयं लोकः' चतुर्गतिकसंसारोभवाद्भवान्तरगतिलक्षणःप्राक्प्रसाधितः सुभगदुर्भगसुरूपमन्दरूपेश्वरदारियादिगत्याजगद्वैचित्रयलक्षणश्च सएवंभूतोलोकस्तेषां 'कुतो भवेत्' कयोपपत्त्याघटेत? आत्मनोऽनभ्युपगमात्, नकथञ्चिदित्यर्थ, 'ते च' नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किञ्चन
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
www