SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० सूत्रकृताङ्ग सूत्रम् १/१/१/१४ नि. [३५] वृ. 'नहु' नैवाफलत्वं द्रुमाभावे साध्ये हेतुर्भवति, नहि यदैव फलवांस्तदैव द्रुमः अन्यदा त्वद्रुम इति भावः, एवमात्मनोऽपिसुप्ताद्यवस्थायां यद्यपि कथञ्चिनिष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रियइति व्यपदेशमर्हति, तथा स्तोकफलत्वमपिनवृक्षाभावसाधनायालं, स्वल्पफलोऽपि हि पनसादिवृक्षव्यपदेशभाग्भवति, एवमात्माऽपि स्वल्पक्रियोऽपि क्रियावानेव, कदाचिदेषामतिर्भवतो भवेत्-स्तोकक्रियो निष्क्रिय एव, यथैककार्षापणधनोन धनित्वव्यपदेश मास्कन्दति, एवमात्माऽपि स्वल्पक्रियत्वादक्रिय इति, एतदप्यचारू, यतोऽयं दृष्टान्तः प्रतिनियतपुरुषापेक्षया चोऽत्रोपगम्यते समस्तपुरुषापेक्षया वा?, तत्र यद्याद्यः पक्षः तदासिद्धसाध्यता, यतः सहादिधनवदपेक्षया निर्धन एवासौ, अथ समस्तपुरुषापेक्षया तदसाधु, यतोऽन्यान् जरच्चीवरधारिणोऽपेक्ष्य कार्षापणधनोऽपिधनवानेव, तथाऽऽत्मापि यदि विशिष्टसामोपेतपुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगभ्यतेन काचिक्षतिःसामान्यापेक्षयातुक्रियावानेव, इत्यलमतिप्रसङ्गेन, एवमनिश्चिताकालफलत्वाख्यहेतुद्वयमपि न वृक्षाभावसाधकम् इत्यादि योज्यं, एवमदुग्धत्वस्तोकदुग्धत्वरूपावपि हेतून गोत्वाभावंसाधयतः, उक्तन्यायेनैव दान्तिकयोजना कार्येति । साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाहमू. (१५) संति पंच महब्भूया, इहमेगेसि आहिया । आयछटो पुणो आहु, आया लोगे य सासाए । वृ. सन्ति' विद्यन्ते ‘पञ्चमहाभूतानि' पृथिव्यादीनि इह' अस्मिन्संसारे ‘एकेषां वेदवादिनां सांख्यानांशैवाधिकारिणां च, एतद् आख्यातम् आख्यातानि वा भूतानि, तेच वादिन एवमाहुःएवमाख्यातवन्तः, यथा ‘आत्मषष्ठानि' आत्मा षष्ठो येषां तानि आत्मषष्ठानि भूतानि विद्यन्त इति, एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नामीषामिति दर्शयति आत्मा ‘लोकश्च' पृथिव्यादिरूपः शाश्वतः' अविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्तत्वाच्चाकाशस्येव शाश्वतत्वं, पृथिव्यादीनांचतद्रूपाप्रच्युतेरविनश्वरत्वमितिशाश्वतत्वमेव भूयः प्रतिपादयितुमाहमू. (१६) दुहओ न विनस्संति, नो य उप्पज्जए असं । सव्वेऽपि सव्वहा भावा, नियत्तीभावमागया। वृ. 'ते' आत्मषष्ठाः पृथिव्यादयः पदार्था 'उभयत'इति निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति, यथा बौद्धानां स्वत एव निर्हेतुको विनाशः तथा च ते ऊचुः । ॥१॥ ‘जातिरेव हि भावानां, विनाशे हेतुरिष्यते। यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च ? ॥ यथाचवैशेषिकाणां लकुटादिकारणसान्निध्येविनाशः सहेतुकः, तेनोभयरूपेणापिविनाशेन लोकात्मनो विनाश इति तात्पर्यार्थः, यदिवा-'दुहओ त्तिद्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि-पृथिव्यप्तेजोवाय्वाकाशानि स्वरूपापरित्यागतया नित्यानि, “न कदाचिदनीशंजगदि तिकृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्यो हेतुभ्यः, तथा चोक्तम् ॥१॥ “नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy