SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-१, ३१५ कारणमापन्न इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेघावीति सोल्लण्ठमेतत्, स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठयते, स्वकारणं परकारणं च दुःखादिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयति-जानाति नात्मकृतं नियतिकारणमापन्नं, कारणं चात्रैकस्यासदनुष्ठानरतस्यापि न दुःखमुत्पद्यते परस्य तु सदनुष्ठायिनोऽपितद्भवतीत्यतो नियतिरेवकीति।तदेवंनियतिवादेस्थितेपरमपियत्किञ्चित्तत्सर्वं नियत्यधीनमिति दर्शयितुमाह - ‘से बेमी' त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य 'ब्रवीमी'ति प्रतिपादयामि ये केचन प्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः स्थावराश्च-पृथिव्यादयः प्राणाः-प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसंबन्धमागच्छन्ति, नान्येन केनचित्कर्मादिनाशरीरंग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित एवानुभवन्ति, तथा नियतित एव 'विवेकं' शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानम्-अवस्थाविशेषं कुब्जकाणखजवामनकजरामरणरोगशोकादिकं, बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा एवं पूर्वोक्तया नीत्या संगतिं यान्ति-नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः 'संगइयंति नियतिमाश्रित्य 'तदुप्रेक्षया' नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो 'नो' नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति-जानन्ति, तद्यथाक्रिया-सदनुष्ठानरूपाअक्रिया तु-असदनुष्ठनरूपा इत्यादि यावदेवंते नियतिवादिनस्तदुपरि सर्वं दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भैर्विरूपरूपान् कामभोगान् भोजनाय-उपभोगार्थं सरमारभन्त इति। तदेवमेव-पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्गप्रतिपन्ना विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां नियुक्तिकस्यैव नियतिवादस्य समाश्रयणात, तथाहि-असौ नियति किं स्वत एव नियतिस्वभावा उतान्यया नियत्या नियम्यते? किंचातः?, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावत्वं किं न कल्प्यते?, किं बहुदोषया नियत्या समाश्रितया ? । अथान्यया नियत्या तथा नियम्यते, साऽप्यन्यया साऽप्यन्ययेत्येवमनवस्था । तथा नियतेः स्वभावत्वान्नियतस्वभावयाऽनयाभवितव्यंननानास्वभावयेति, एकत्वाच्च नियतेस्तत्कार्येणाप्येकाकारेणैव भवितव्यं, तथाचसतिजगद्वैचित्र्याभावः, नचैतइष्टमिष्टंवा ।तदेवंयुक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तंद्वावपि तौ पुरुषी क्रियाक्रियावादिनौ तुल्यौ, एतदपि प्रतीतिबाधितं, यतस्ययोरेकः क्रियावाद्यपरस्त्वक्रियावादीति कथमनयोस्तुल्यत्वम्, अथैकया नियत्या तथानियतत्वात्तुल्यताअनयोः, एतच्च निरन्तराः सुहृदःप्रत्येष्यन्ति, नियतेरप्रमाणत्वात्, अप्रमाणत्वंचप्राग्लेशतःप्रदर्शितमेव, यदप्युक्तं यदुःरवादिकमहमनुभवामितन्नाहमकार्षमित्यादि, तदपि बालवचनप्रायं, यतो जन्मान्तरकृतं शुभमशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरत्वादसुमतां, तथा चोक्तं॥१॥ 'यदिह क्रियते कर्म, तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ।। ॥२॥ (तथा)-'यदुपात्तमन्यजन्मनि शुभशुभमं वा स्वकर्म परिणत्या। तच्छक्यमन्यथा नो कर्तु देवासुरैरपि हि ॥' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy