SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१४ सूत्रकृताङ्ग सूत्रम् २/१/-/६४४ नानापन्ना नानाछंदा नानासीला नानादिट्ठी नानारुई नानारंभा नाना अज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता इति ते नो हव्वाए नो पाराए अंतरा कामभोगेसु विसण्णा वृ. अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायतेप्रतिपाद्यते स चैवमाह - नात्र कश्चित्कालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम्, उक्तं च - 1 ॥ १ ॥“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ इत्यादि । 'इह खलु पाईणं' इत्यादिको ग्रन्थः प्रागवन्नेतव्यो यावदेष धर्मो-नियतिवादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति । स च नियतिवादी स्वाभ्युपगमं दर्शयितुमाह- 'इह खलु दुवे पुरिसा भवंती' त्यादि, 'इह' अस्मिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवति, न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावस्वतन्त्री क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वातुल्यौ, यदि पुनस्तौ स्वतन्त्रौ भवतस्ततः क्रियाऽक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिदमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति । साम्प्रतं नियतिवादी परतोद्विभावयिषयाऽऽह- 'बालः' अज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयति- 'एव' मिति वक्ष्यमाणनीत्या 'विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकारः कालेश्वरादिर्वा कारणमित्येवमभ्युपपन्नो नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह - तद्यथा-योऽहमस्मि 'दुक्खामि 'त्ति शारीरं दुःखमनुभवामि तथा शोचामि इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा 'तिप्पामि’त्ति शारीरबलं क्षरामि, तथा 'पीडामि' त्ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा 'परितप्पामि'त्ति परितापमनुभवामि, तथा 'जूरामि' त्ति अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीड्या कृतवानस्मीत्यर्थः, तथा परोऽपि यहुखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेव दर्शयति- 'परो वे 'त्यादि, तथा परोऽपि यन्मां दुःखयति शोचयतीत्यादिप्राग्वेन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं 'विप्रतिवेदयति' जानीते स्वकारणं वा परकारणं वा सर्वं दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति । तदेवं नियतिवादी पुरुषकारकारणवादिनो बालत्वमापाद्य स्वमतमाह-मेधा मर्यादा प्रज्ञा वा तद्वान् मेघावी नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापन्न इति नियतिरेव कारणं सुखाद्यानुभवस्य तद्यथा - योऽहमस्मि दुःखयामि शोचयामि तथा 'तिप्पामि त्ति क्षरामि 'पीडामि' त्ति पीडामनुभवामि 'परितप्पामि'त्ति परितापमनुभवामि, नाहमेवमकार्ष दुःखम्, अपि तु नियतित एवैतन्मय्यागतं, न पुरुषकारादिकृतं यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रियाः समारभते, नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy