SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - १, ३११ संभावनायां, तद्यथा नाम गण्डं 'स्याद्' भवेत्, संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं शरीरजातं शरीरावयवभूतं, तथा शरीरे वृद्धिमुपगतं-शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेऽभिसमन्वागतंशरीरमाभिमुख्येन व्याप्य व्यवस्थितं, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूयआभिमुख्येन पीडयित्वा तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्गण्ड तिष्ठति न शरीराद्धहिर्भवति, एतदुक्तं भवति यथा तत्पिटकं शरीरैकदेशभूतं युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथक्कर्तृ पार्यन्ते । यदिवा सर्वव्यापिन आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्मा प्रादुष्यन्ति ते पृथक्कर्तुं न शक्यन्ते, यथा तद्गण्डंशरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीरमेवावतिष्ठते, एवमेव सर्वेऽपि धर्मापुरुषादिकाः पुरुषकारणिकः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्बहिर्भवन्तीति, शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धं, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वाध्ष्टान्त-बहुत्वमित्याह- 'से जहा' इत्यादि, तद् यथानामारतिः- चित्तोद्वेगलक्षणा 'स्याद्' भवेत्, सा च शरीर - जाता इत्यादि गण्डवन्नेया, दान्तिकेऽप्येवमेव, सर्वे धर्मा पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं । तथा तद् यथा नाम वल्मीकं- पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां जातं पृथिवीसंबद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभिभूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवर्तरूपं वा नात्मनः पृथग्मवितुमर्हति पृथिव्या वल्मीकवत् । तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथिवीजात इत्यादि ध्ष्टान्तदान्तिके पूर्ववदायोज्ये, तद्यथा नाम पुष्करिणी स्यात्-तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चचर्यः, तथा तद् यथा नाम पुष्कलं प्रचुरमुदकपुष्कलम् उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्शन्तिकेऽप्यायोज्यं, तथा तद् यथा नामोदकबुद्बुदः स्याद्, अत्रापि दृष्टान्तदान्तिके, न तस्मादवयविनः पृथग्भूत इति सुगमम् ॥ तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं ‘श्रमणानां' यतीनां 'निर्ग्रन्थानां' निष्किञ्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितं - तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा . आचार इत्यादि यावद्दष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतत्वात् स्वरुचिविरचितरध्यापुरुषवाक्यवत्, तथा नैतत्तथ्यं मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरत्ववत्, नैतत्तथ्यमित्यनेन तु सद्भूतार्थनिह्नवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यम्-यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भूतार्थनिह्नवेनासद्भूतार्थारोपणमाविष्कृतं, तद् यथा गामश्वं ब्रुवतोऽश्वं वा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्द्रष्टव्यानि । तदेवं यदेतद्द्वादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतत्वान्मिथ्येति स्थितम् इदं तु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् । तथेदमेव तथ्यं सद्भूतार्थोद्मासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनो वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy