________________
३१२
सूत्रकृताङ्ग सूत्रम् २/१/-/६४३ ‘एवम्' अनन्तरोक्तयानीत्यासर्वं तनुभुवनकरणादिकमीश्वरकारणिकंतथा सर्वं चेतनमचेतन वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवंसंज्ञानं संज्ञा तामेवंकुर्वन्त्यन्येषां चते स्वदर्शनानुरक्तमनसां संज्ञां संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्टु उप-सामीप्येन तदाग्रहितया तदभिमुखा युक्तिर्निनीषव- 'स्थापयन्ति' प्रतिष्ठापयन्ति।तेचैवंवादिनस्तमीश्वरकर्तृत्ववादमात्माद्वैतवादवानातिवर्तन्ते, तदभ्युपगमजातीयं च दुःख-दुःखहेतुत्वादुःखं नातिवर्तन्ते न त्रोटयन्ति वा, अस्मिन्नर्थे दृष्टान्तमाह-यथा शकुनिपक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वात्रोटयन्ति।
तेचस्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्तिन सम्यक् जानन्ति, तद्यथाइयं क्रिया-सदनुष्ठानरूपेयं चाक्रिया-तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनशोभनं वा यावदयमनर-क इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूषैः कर्मसमारम्भैः-नानाप्रकारैः सावद्यानुष्ठानैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपान्कामभोगानुच्चावचान्समाचरन्ति भोजनाय-उपभोगार्थमित्येवमनास्तेि विरुद्धं मार्ग प्रतिपन्ना विप्रतिपन्ना न सम्यग्वादिनो भवन्ति, तथाहि
सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् क्रियासु प्रवर्त ते उतापरेण प्रेरितः?, तत्र यद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वर- परिकल्पनेन ?, अथासावप्यपरप्रेरितः, सोऽप्यपरेण सोऽप्यरेणेत्येवमनवस्थालता नभोमण्डल-मालिनी प्रसर्पति । किञ्च असावीश्वरो महापुरुषतया वीतरागतोपेतः सन्नेकान्नरकयोग्यासु क्रियासु प्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्विति ?, अथ ते पूर्वशुभाशुभाचरितोदयादेव तथाविधासुक्रियासुप्रवर्तन्ते, सतुनिमित्तमात्रम्, तदपिनयुक्तिसंगतं, यतःप्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तम्
अज्ञो जन्तु" रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन ?, तथा चोक्तम् - ॥१॥ "शस्त्रोषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे।
असंबद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते? ॥ इत्यादि । यच्चोक्तं-सर्वं तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषत्वात् देवकुलादिवदिति, एतदपिन युक्तिसंगतं, यत एतदपि साधनंनभवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्तयसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृत्वेनाभ्युपगमात्, न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोःप्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसङ्गः स्यात्, उक्तंच
“अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः करणात्सिद्धयेद्वल्मीकस्यापि तत्कृतिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org