SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं-१, ३०९ जायतेभावो, नाभावोजायतेसत' इत्याद्यभ्युपगमाप्रधानात्मनोरेव विद्यमानत्वान्महदहङ्कारादेरनुत्पत्तिरेव, एकत्वाच्च प्रकृतेरेकात्मवियोगे सति सर्वात्मनां वियोगः स्याद् एकसंबन्धेवासर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवंजगद्वैचित्र्यंनस्याद्, आत्मनश्चाकर्तृत्वे तत्कृती बन्धमोक्षोन स्याताम्, एतच्च दृष्टेष्टबाधितं नापिकारणे सत्कार्यवादोयुक्तिभिरनुपपद्यमानत्वात्, तथाहि-मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंबन्धिनां कर्मगुणव्यपदेशानामभावात्, घटार्थिनांच क्रियासुप्रवृत्तेर्न कारणे कार्यमिति लोकायतिकस्यापि भूतानामचेतनत्वात्कर्तृत्वानुपपत्ति, कायाकारपरिणतानां चैतन्याभिव्यकत्यभ्युपगमे च मरणाभावप्रसङ्गः स्यात्, तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् । अपिच-इदं ज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, नच भूतान्येव धर्मित्वेन परिकल्पयितुंयुज्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येतदप्ययुक्तं, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्, निर्हेतुकत्वे च नित्यं सत्त्वमस्त्वं वा स्यादिति । तदेवं भूतव्यतिरिक्त आत्मा, तस्मिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्या सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तद्दर्शयितुमाह - तंसद्दहमाणाइत्यादि, तम्' आत्मीयमभ्युपगमंपूर्वोक्तयानीत्या नियुक्तिकमपिश्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति, तदेव च सत्यमित्येवं 'प्रतियन्तः' प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याख्यातारंप्रशंसयन्तः, तद्यथा-स्वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः स्त्रीकामेषु मूर्छिता इत्येवं पूर्ववज्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा एहिकामुष्मिकोभयकार्यभ्रष्टा नात्मत्राणाय नापि परेषामिति । भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति ॥ साम्प्रतमीश्वरकरणिकमधिकृत्याह मू. (६४३) अहावरे तञ्चे पुरिसजाए ईसरकारणिए इति आहिज्जइ, इह खलु पादीणं वा ६ संतेगतिया मणुस्सा भवंति अनुपुव्वेणं लोयं उववन्ना, तं० आरिया वेगे जाव तेसिंचणं महंते एगे राया भवइ जाव सेणावइपुत्ता, तेसिं च णं एगतीए सड्ढी भवइ, कामंतं समणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपनत्ते भवइ । इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपजोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिदंति, से जहानामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए अरई सिया सरीरे जाया सरीरे संवुड्ढा सरीरे अभिसमण्णागयासरीरमेव अभिभूयचिठ्ठति, एवमेव धम्माविपुरिसादियाजावपुरिसमेव अभिभूय चिट्ठति। से जहानामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठति । से जहानामए रूक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy