SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ सूत्रकृताङ्ग सूत्रम् २/9/-/६४२ येषां तान्यपुरोहितानि, स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'नकदाचिदनीशंजगदिति वचनात्, तदेवंभूतानि पञ्चमहाभूतान्यात्मषष्ठानि पुनरेकेएवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि आत्मव्यपदेशं भजन्त इति। तदेवं सांख्याभिप्रायेण 'सतो' विद्यमानस्य प्रधानादेनास्ति'विनाशः' अत्यन्ताभावरूपो नाप्यसतःशशविषाणादेः संभवः-समुत्पत्तिरस्ति, कारणेकार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, तथा चोक्तम्-"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेघंटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणेसत्कार्यवादः।तदेवमेतावानेवतावदिति सांख्योलोकायतिको वा माध्यस्थ्यमवलम्बमान एवमाह, तद्यथाअस्मदयुक्तिभिर्विचार्यमाणस्तावदेतावानेवजीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यासर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्पएव,लोकायतस्यतुसनास्त्येवेत्यत 'एतावानेव' भूतमात्र एव जीवकायः, तथा एतावानेव-भूतास्तित्वमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति। ___तथा एतावानेव सर्वलोकोयदुतपञ्चमहाभूतानिप्रधानरूपापनानि, आत्माचाकर्तानिर्गुणः सांख्यस्यलोकायतिकस्यतु पञ्चभूतात्मक एवलोकः, तदतिरिक्तस्यापरस्यपदार्थस्याभावादिति तथा एतदेवपञ्चभूतास्तित्वं मुखं कारणं लोकस्य, एतदेवच कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्यप्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येवअन्तसस्तृणमात्रमपि कार्यं कुर्वन्ति, तदतिरिक्तस्यापरस्याभावादितिभावः॥स चैवंवाद्येकत्रात्मनोऽकिञ्चित्करत्वादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मापापैः कर्मभिर्न बध्यत इति दर्शयितुमाह- सेकीण मित्यादि 'से'त्ति स इति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन्' किञ्चित् क्रयेण गृहंस्तथाऽपरं क्रापयंस्तथा प्राणिनोघ्नन्-हिंसन्तथापरैर्घातयन्-व्यापादयन्तथापचनपाचनादिकां क्रियाकुर्वंस्तथाऽपश्च पाचयन्, अस्य चोपलक्षणार्थत्वात् क्रीणतःक्रापयतोघ्नतोघातयतः पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पञ्चेन्द्रियं विक्रीय घातयित्वा, अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं 'जानीहि अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः । ततश्चैवंवादिनः सांख्याबार्हस्पत्यावा 'नो नैव एतद् वक्ष्यमाणं विप्रतिवेयन्ति' जानन्ति, तद्यथा-क्रिया-परिस्पन्दात्मिका सावद्यानुष्ठानरूपा एवमक्रिया वा-स्थानादिलक्षणा यावदेवमेव 'विरूपरूपैः' उच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथाप्राण्युपमर्दकारिभिः कर्मसमारम्भैः 'विरूपरूपान्' नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान्कामभोगान्समारभन्तेस्वतः, परांश्च चोदयन्ति-नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारित्वादार्यान्मार्गाविरुद्ध मार्ग प्रतिपन्नाः विप्रतिपन्नाः, तथाहि-सांख्यानामचेतनत्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते, अचेतनत्वंतु तस्याः 'चैतन्यं पुरुषस्य स्वरूप'मिति वचनात्, आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपिनयुक्तसंगतं, यतोऽकर्तृत्वात्मनोनित्यत्वाच्च प्रतिबिम्बोदयोनयुज्यते, किंच-नित्यत्वात्प्रकृतेर्महदादिविकारतयानोत्पत्तिस्यात्, अपिच-'नासतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy