SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-१, ३०७ सांप्रतं सांख्यस्य लोकायतिकस्य चाभ्युपगम दर्शयितुमाह-'इह' अस्मिन् द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतनि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पञ्चैव,अपरस्यषष्ठस्य क्रियाकर्तृत्वेनानभ्युपगमात्, यैर्हि पञ्चभिभूतैरप्युपगम्यमानैः ‘नः' अस्माकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा क्रियते अक्रिया वा-निव्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शन-सत्त्वरजस्तमोरूपा प्रकृतिभूतात्मभूताः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपभुङ्को बुद्धयध्यवसितमर्थं पुरुषश्चेतयते इतिवचनात्, बुद्धिश्चप्रकृतिरेवतद्विकारत्वात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसांचयापचयाभ्यां क्रियाक्रिये स्यातामितिकृत्वा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तद्व्यतिरेकेणापरस्याभावादिति भावः । तथा सुष्टु कृतं सुकृतम् एतच्च सत्तगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकिमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्कर्षानुत्कर्षतया यथासंभवमायोजनीयं । तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्त्वसिद्धिः निर्वाणं वा-सिद्धि:असिद्धिः-संसारः संसारिणां तथा नरकः-पापकर्मा यातनास्थानम् अनरकस्तिर्यमनुष्यामरणाम्, एतत्सर्वं सत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिर्विधत्ते।लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्यं तद्भूतैरेव प्रधारूपापनैः क्रियते, तथा चोक्तम् । ॥१॥ ‘सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्मकं बलं च रजः । गुरु चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।। इत्यादि। तदेवंसांख्याभिप्रायेणात्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याललोकायतिकाभिप्रायेण त्वात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानास्वभावं कार्यं कुर्वन्ति ॥तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात्, तद्यथा-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथाऽऽपो द्रवलक्षणा महाभूतं, तथा तेज उष्णोद्योतलक्षणं, तथा वायुर्हतिकम्पलक्षणः, तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषां समवायः स एकत्वेऽपि लक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, 'संख्या छुपादीयमाना संख्यान्तरं निवर्तयती तिकृत्वा न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पञ्चमहाभूतानि । ॥१॥ "प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात् गणश्च षोडशकः। तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ।। इत्येवंक्रमेण व्यवस्थितानि, अपरेणकालेश्वरादिना केनचिदनिर्मितानि-अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादिवद्विनसापरिणामेन निष्पन्नत्वात्, तथानघटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानिन भवन्तीत्यर्थ, तथापरव्यापाराभावतया 'नो' नैवकृतकानि, अपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्पन्नत्वात्कृतकव्यपदेशभाजि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्यकार्यकर्तृणि, तथा न विद्यते पुरोहितः' कार्य प्रतिप्रवर्तयिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy