________________
श्रुतस्कन्धः - २, अध्ययनं-१,
३०३
जीवोऽप्यवाप्त एव भवति, एष चकायो यावन्तं कालं जीवेद्-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात्
___ तथैव कायो यदा ‘मृतो' विकारभाग्यवति तदाजीवोऽपिनजीवति, जीवशरीरयोरेकात्मकत्वात्, यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेश्च जीवोऽपीति, तस्मिंश्च विनष्टे सति-एकस्यापिभूतस्यान्यथा भावेविकारे सति जीवस्यापितदात्मनोविनाशः, तदेवं यावदेतच्छरीरं वातपित्तश्लेष्माधारंपूर्वस्वभावादप्रच्युतं तावदेवतज्जीवस्यजीवितं भवति, तस्मिंश्च विनष्टेतदात्माजीवोऽपि विनष्ट इतिकृत्वा 'आदहनाय' आसमन्ताद्दहनार्थः श्मशानादौ नीयते यतोऽसौ, तस्मिंश्च शरीरेऽग्निना मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तित्वशङ्का स्यात्, तेच बान्धवा जघन्यतोऽपि चत्वारः आसन्दी मञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराद्भिन्नः स्यात्ततः शरीरान्निर्गच्छन् दृश्यते न चोपलभ्यते, तस्मात्तज्जी- वस्तदेव शरीरमिति स्थितं।
तदेवमुक्तनीत्या।ऽसौ जीवोऽसन्-अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः' अननूभूयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातंभवति, येषांपुनरन्योजीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणकएवाभ्युपगमः, तस्मात्तेस्वमूढ्या प्रवर्तमाना ‘एव' मिति वक्ष्यमाणंतेनैव विप्रतिवेदयन्ति' जानन्ति, तद्यथा-अयमात्माऽऽयुष्मन्शरीराबहिरभ्युपगम्यमानः किंप्रमाणकःस्यादिति वाच्यं, तत्र किं दीर्घ-स्वशरीरामांशुतरः उत ह्रस्वः-अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा?, तथा संस्थानानां-परिमण्डलादीनांमध्ये किंसंस्थानः?,तथा कृष्णादीनां वर्णानांमध्ये कतमवर्णवर्ती
तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः?, षण्णां रसानां मध्ये कतमरसवर्ती ?, तथाऽष्टानां स्पर्शानां मध्ये कतमे स्पर्श वर्तते ? । तदेवं संस्थावर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसौ, तथापि केनापि प्रकारेण संवेद्यमानोऽपियेषांतत्स्वाख्यातं भवति तथाऽन्यो जीवोऽन्यच्छरीरकमित्ययं पक्षः, तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैव वक्ष्यमाणनीत्याऽत्मानमुपलभन्ते॥तद्यथानाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असिं' खङ्गम् 'अभिनिर्वर्त्य समाकृष्यान्येषामुपदर्शयेत्, तद्यथा-अयमायुष्मन् ! ‘असि' खङ्ग्रोऽयंच 'कोशः' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता, तद्यथा-अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति । ___अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह-तद्यथा वा कश्चित्पुरुषो 'मुजात्' तृणविशेषात् 'इसियति तद्गर्भभूतां शलाकां पृथककृत्य दर्शयेत्, तथा मांसादस्थि तथा करतलादाम-लकंतथा दनोनवनीतंतिलेभ्यस्तैलंइति तथेक्षो रसंतथाऽरणितोऽग्निमभिनिव~पृथक्कृत्य दर्शयेद्, एवमेव शरीरादपिजीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरात्पृथग-संवेद्यमानश्चेति।प्रयोगश्चात्र-सुखदुःखभाक्परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटात्मवत्, व्यतिरेकेण च कोशखड्गवत्, तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिनां स्वदर्शनानुरागादेतत्स्वाख्यातं भवति, तद्यथा--
अन्यो जीवः परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम्, एतच्च पृथङ् Jain Education International
For Private & Personal Use Only
www.jainelibrary.org