SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-१, २९२ पद्मान्येव 'वराणि' श्रेष्ठानिपौण्डरीकाणिपद्मवरपौण्डरीकाणि, पद्मग्रहणंछत्रव्याघ्रव्यवच्छेदार्थ, पौण्डरीकग्रहणं श्वेतशतपत्रमतिपत्त्यर्थं, वरग्रहणमप्रधाननिवृत्त्यर्थ, तदेवम्भूतानि बहूनि पद्मवरपौण्डरीकाणि 'बुइय'त्ति उक्तानि-प्रतिपादितानि विद्यन्ते इत्यर्थः। 'आनुपूर्येण विशिष्टरचनया स्थितामि, तथोच्छ्रितानिपङ्कजले अतिलङ्घयोपरिव्यवस्थिःतानि, तथा रुचि' दीप्तिस्तांलान्ति-आददतिरुचिलानि-सद्दीप्तिमन्ति, तथा शोभनवर्णगन्धरसस्पविन्ति, तथा प्रासादीयानि-दर्शनीयानि अभिरूपाणिप्रतिरूपाणि।तस्याश्चपुष्करिण्याःसर्वतः पद्मावृतायाः णमिति वाक्यालङ्कारे 'बहुदेशमध्यभागे' निरुपचरितमध्यदेशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्वेणव्यवस्थितमुच्छ्रितंरुचिलं वर्णगन्धरसस्पर्शवत्तथा प्रासादीयंदर्शनीयं अमिरूपतरं प्रतिरूप मिति। साम्प्रतमेतेवानन्तरोक्तं सूत्रद्वयं सव्वावंति चणंती'त्यनेन विशिष्टमपरंसूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थः-'सव्वावंति'त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानिबहूनिपानि, तथासर्वस्याश्चतस्या बहुमध्यदेशभागेयथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति, उभयत्रापि चः समच्चये, णमिति वाक्यालङ्कारे इति । मू. (६३४) अहपुरिसे पुरित्थिमाओ दिसाओआगम्मतंपुक्खरिणींतीसे पुक्खरिणीए तीरे ठिञ्चा पासति तं महं एगं पउमवरपोंडरीयं अनुपुबुट्ठियं ऊसियं जाव पडिरूवं । तए णं से पुरिसे एवं वयासी। अहमंसि पुरिसे खेयन्ने कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमन्नू अहमेयं पउमवरपोंडरीयंउनिक्खिस्सामित्तिकट्ठ इति बुया से पुरिसे अभिक्कमेति तं पुक्खरिणी, जावं जावं चणं अभिक्कमेइ तावं तावं च णं महंते उदए महंतेसेए पहीणे तीरं अपत्ते पउमवरपोंडरीयंनोहब्वाएनोपाराए, अंतरा पोक्खरिणीए सेयंसिनिसण्णे पढमेपुरिसजाए वृ. 'अथ' अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च 'तीरे' तटे स्थित्वा तदेतत्पद्मप्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतंस पुरुषः पूर्वदिग्भागव्यवस्थितः ‘एव' मिति वक्ष्यमाणनीत्या वदेत्' ब्रूयात्-'अहमंसित्तिपुरुषः, किम्भूतः ? -'कुशलो हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीमः पण्डितोधर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो' बालभावान्निष्कान्तः परिणतबुद्धिः ‘मेघावी' प्लवनोत्प्लवनयोरुपायज्ञः। तथा अबालो' मध्यमवयाः षोडशवर्षोपरिवर्ती मार्गस्यः' सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्य यागतिर्गमनंवर्तते तयायत्पराक्रमणं-विवक्षितदेशगमनंतजानातीति परक्रमज्ञः, यदिवा-पराक्रमः-सामर्थ्यः तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतविशेषणकलापोपेर्तोऽहम् ‘एतत् पूर्वोक्तविशेषणकलापोतेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्र वामीतिकृत्वेहागतः ‘इति' एतत्पूर्वोक्तं तत् प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं कामेत्-अभिक्रामेत् तदभिमुखं गच्छेत् ।। ___यावद्या वच्चा सौ तदवतरणाभिप्रायेणाभिमुखं कामेत्तावत्तावञ्चा णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांश्च 'सेयः' कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतःप्रहीणः-सद्विवेकेन रहितस्त्यक्त्वा तीरं सुबव्यत्ययाद्वा तीराव्यहीणः-प्रभ्रष्टः अप्राप्तश्च www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy