SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ सूत्रकृताङ्ग सूत्रम् २/१/-/६३३ तहिं तहिं बहवे पउमवरपोंडरीयाबुइया, अनुपुबुट्ठिवा, तीसेणं पुक्खरिणीए तत्थतत्थ देसे देसे तहिंतहिं बहवेपउमवरपोंडरीयाबुइया, अनुपुबुट्ठिया ऊसिया रुइलावण्णमंता गंधमंता रसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा। तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए वुइए, अनुपुबुट्टिए उस्सिते रुइले वनमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे । सव्वावंति च णं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अनुपुबुट्ठिया ऊसिया रुइलाजाव पडिरूवा, सव्वावंतिचणंतीसेणंपुक्खरिणीए बहुमज्झदेसभाएएगंमहं पउमवरपोंडरीए बुइए अनुपुबुट्ठिए जाव पडिरूवे। वृ.अस्यचानन्तरसूत्रेण सह सम्बन्धोवाच्यः, सचायं-सेएवमेवजाणहजमहंभयंतारोत्ति तदेवदेवजानीत भयस्य त्रातारः!, तद्यथा-श्रुतंमयाऽऽयुष्मता भगवतैवमाख्यातम्, आदिसूत्रेण चसह सम्बन्धोऽयं, तद्यथा-यद्भगवताऽऽख्यातंमयाच श्रुतंतबुध्येतेत्यादिकं, किंतद्भगवताऽऽख्यातमित्याह-'इह प्रवचने सूत्रकृद्दितीयश्रुतस्कन्धेवाखलुशब्दोवाक्यालङ्कारेपौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृत्वा, अतोऽस्याध्ययनस्यपौण्डरीकमिति नाम कृतं, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, प्रज्ञप्तः' प्ररूपितः, सेजह'त्ति तद्यथार्थः सच वाक्योपन्यासार्थः, नामशब्दः सम्भावनायां, सम्भाव्यतेपुष्करिणीष्टान्तः, पुष्कराणिपद्मानि तानि विद्यन्ते यस्यामसौ पुष्करिणी ‘स्याद्' भवेदेवम्भूता, तद्यथा 'बहु' प्रचुरमगाधमुदकं यस्यां सा बहूदका, तथ बहुः-प्रचुरः सीयन्ते-अवबध्यन्ते यस्मिन्नसौ सेयः-कर्दमः स यस्यां सा बहुसेयाप्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा बहुपुष्कला' बहुसंपूर्णा-प्रचुरोदकभृतेत्यर्थः। तथालब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थोयया सालब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सालब्धाययासालब्धास्था, तथा पौण्डरीकाणि-श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मत्वर्थीयोत्पत्तेर्बहुपद्मेत्यर्थः। तथा प्रसादः-प्रसन्नता निर्मलजलता सा विद्यते यस्याः सा प्रसादिका प्रासादा वादेवकुलसन्निवेशास्ते विद्यन्ते यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतोवा द्रष्टव्या दर्शनयोग्या, तथाऽऽभिमुख्येन सदाऽवस्थितानि रूपाणि-राजहंसचक्रवाकसारसादीनिगजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साऽभिरूपेति, तथा प्रतिरूपाणि-प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति-स्वच्छत्वात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वालोकेन तत्प्रतिबम्बानि क्रियन्तेसा प्रतिरूपति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूव'त्ति पर्याया इत्येते चत्वारोऽप्यतिशयरमणीयत्वख्यापनार्थमुपात्ताः। तस्याश्च पुष्करिण्याः णमिति वाक्यालङ्कारे 'तत्र तत्रे'त्यनेन वीप्सापदेन पौण्डरीकापकत्वमाह, 'देशे देशे' इत्यनेन त्वेकैकप्रदेशे प्राचुर्यमाह, 'तस्मिंस्तस्मिन्नित्यनेन तु नास्त्येवासी पुष्करिण्याः प्रदेशो यत्र तानि न सन्तीति, यदिवा-'देशे देशे' इत्येतत्प्रत्येकमभिसम्बध्यते तत्र तत्रे'ति, कोऽर्थ ? -देशे देशे तस्मिंस्तस्मिन्निति च, कोऽर्थ :?, देशैकदेश इति यदिवा-अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy