________________
श्रुतस्कन्धः-१, अध्ययनं-१६,
२८९
भावस्रोतांसि तु शब्दादिष्वेवानुकूलप्रतिकूलेषु रागद्वेषोद्भवास्तान्युभयरूपाण्यपि स्रोतांसि संवृतेन्द्रियतयारागद्वेषाभावाच्च परिच्छिन्नानि येन सपरिच्छिन्नोस्रोताः,तथा नोपूजासत्कारलाभार्थी किंतु निर्जरापेक्षी सर्वास्तपश्चरणादिकाः क्रिया विदघाति, एतदेव दर्शयति-धर्म-श्रुतचारित्राव्यस्तेनार्थ स एव वाऽर्थो धर्मार्थ स विद्यते यस्यासौ धमार्थीति, इदमुक्तं भवति-न पूजाद्यर्थ क्रियासुप्रवर्ततेअपितुधर्मार्थीति।किमिति?,यतो धर्मयथावत्तत्फलानि चस्वर्गावाप्तिलक्षणानि सम्यक् वेत्ति, धर्मं च सम्यग् जानानो यत्करोति तद्दर्शयति-नियागो-मोक्षमार्ग सत्संयमो वातं सर्वात्मना भावतःप्रतिपन्नः नियागपडिवन्नोत्ति, तथाविधश्च यत्कुर्यात् तदाह-समियं तिसमतां समभावरूपांवासीचन्दनकल्पां'चरेत्' सततमनुतिष्ठेत् । किंभूतः सन् ?,आह-दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च, एतद्गुणसमन्वितः सन् पूर्वोक्तमा-हनश्रमणभिक्षुशब्दानां यत् प्रवृत्तिनिमित्तं तत्समन्वितश्च निर्ग्रन्थइतिवाच्यः।तेऽपिमाहनादयः शब्दानिर्ग्रन्थशब्दप्रवृत्तिनिमित्ताविनाभाविनो भवन्ति, सर्वेऽप्येते भिन्नव्यञ्जनाअपि कथञ्चिदेकार्था इति ।
साम्प्रतमुपसंहारार्थमाह-सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमहा-'से' इतितधन्मया कथितमेवमेव जानीत यूयं, नान्यो मद्वचसि विकल्पो विधेयः, यस्मादहं सर्वज्ञाज्ञया ब्रवीमि ।न च सर्वज्ञा भगवन्तः परिहितैकरता भयात्त्रातारो रागद्वेषमोहान्यतरकारणाभावादन्यथाब्रुवते, अतो यन्मयाऽऽदितः प्रभृति कथितं तदेवमेवावगच्छतेति । इति परिसमाप्तयर्थे । ब्रवीमीति पूर्ववत्
अध्ययनं-१६ समाप्तम् उक्तोऽनुगमः, साम्प्रतं नयाः, तेच नैगमादयः सप्त, नैगमस्य सामान्यविशेषात्मकतया संग्रहव्यवहारप्रवेशात्संग्रहादयः षट्, समभिरूढेत्थंभूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पञ्च, नैगमस्याप्यन्तर्भावाच्चत्वारो, व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहर्जुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दस्त्रयः।
तेचद्रव्यास्तिकपर्यायास्तिकान्तर्भावाव्यास्तिकपर्यायास्तिकाभिधानौ द्वौनयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् ज्ञानक्रियाभिधानी द्वौ, तत्रापिज्ञाननयोज्ञानमेवप्रधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येकं मिथ्याष्टित्वाज्ज्ञानक्रिययोश्च परस्परापेक्षितया मोक्षाङ्गत्वा-दुभयमत्र प्रधानं, तच्चोभयं सक्रियोपेते साधौ भवतीति, तथा चोक्तम् -
नायम्मि गिण्हियव्वे अगिव्हियव्वंमिचेव अत्थंमि।
जइयव्वमेव इति जो उवएसो सो नओ नाम ।। ॥२॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता।
तंसव्वनयविसुद्धं जंचरणगुणट्ठिओ साहू॥
प्रथमः श्रुतस्कन्धः समाप्त मुनिदीपरत्न सागरेण संशोधिता सम्पादिता सूत्रकृताङ्गस्य
प्रथमः श्रुतस्कन्धस्य टीका परिसमाप्ता। 219
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org