________________
२८८
सूत्रकृताङ्ग सूत्रम् १/१६/-/६३२/३ तप्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाहविनयालङ्क तो गुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वादौ प्रह्रो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेषं पापमपनयतीत्यर्थ ।
तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यां, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्प्रतिकर्मतया 'व्युत्सृष्टकायश्च' परित्यक्तदेहश्च यत्करोति तद्दर्शयति-सम्यक् ‘विधूय' अपनीय विरूपरूपान्' नानारूपाननुकूलप्रतिकूलान्-उच्चावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गांश्चेति, तद्विधूननं तु यत्तेषां सम्यक् सहन-तैरपराजितता, परीषहोपसर्गाश्च विधूयाध्यात्मयोगेनसुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम्-अवदातमादानं-चारित्रं यस्य स शुद्धादानो भवति
तथा सम्यगुत्थानेन-सच्चारित्रोद्यमेनोत्थितः तथा स्थितो-मोक्षाध्वनि व्यवस्थितः परीषहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्प्राप तां कर्मभूमेर्बोधेः सुदुर्लभत्वंचावाप्यचसकलां संसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्थैरात्मार्थं निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुंशीलमस्य परदत्तभोजी, सएवंगुणकलितो भिक्षुरिति वाच्यः । तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अभी चान्ये अपदिश्यन्ते, तद्यथा
मू. (६३२/४) एत्थविनिग्गंथे एगेएगविऊबुद्धे संछिन्नसोएसुसंजतेसुसमितेसुसामाइए आयवायपत्तेविऊ दुहओवि सोयपलिच्छिन्ने नोपूयासक्कारलाभट्ठीघम्मट्ठी धम्मविऊ नियागपडि वन्नेसमियचरे दंते दविए वोसट्टकाए निग्गंथेत्ति वच्चे से एवमेव जाणह जमहं भयंतारो। तिबेमि
वृ.'एको' रागद्वेषरहिततयाओजाः, यदिवाऽस्मिन्संसारचक्रवाले पर्यटन्नसुमान् स्वकृतसुखदुःखफलभाक्त्वेनैकस्यैव परलोकगमनतया सदैककएव भवति।तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्त्वेकक एव भवति । तथैकमेतात्मानं परलोकगामिनं वेत्तीत्येकवित्, न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित्, यदिवैकान्तविदएकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित्, अथवैको-मोक्षः संयमो वा तं वेत्तीति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवृतत्वात्कर्माश्रवद्वाराणियेनस तथा, सुष्ठुसंयतःकूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्टुपञ्चभिः समितिभिः सम्यगितःप्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः।
तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याधनन्तधत्मिकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मस्वतत्त्ववेदीत्यर्थः। तथा विद्वान् अवगतसर्वपदार्थस्वभावोनव्यत्ययेन पदार्थानवगच्छति।ततोयत्कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाणस्याभावादित्यभिप्रायः।
तथा 'द्विधाऽपी'तिद्रव्यतोभावतच, तत्रद्रव्यस्रोतांसि यथास्वं विषयेष्विन्द्रियप्रवृत्तयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org