________________
२९०
सूत्रकृताङ्ग सूत्रम् २/-/-/६३२/४/ नि. [१४२]
ॐ श्रुतस्कन्धः-२ ॥ वृ. प्रथमश्रुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरश्रुतस्कन्धेयोऽर्थ समासतोऽभिहितः असावेवान श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, तएव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिधानमिति, यदिवापूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य श्रुतस्कन्धस्य सम्बन्धीनि सप्तमहाध्ययनानिप्रतिपाद्यन्ते, महान्तिच तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति, तत्र महच्छब्दाध्ययनशब्दयोनिक्षेपार्थं नियुक्तिकृदाहनि. [१४२] नामंठवणादविए खेत्ते काले तहेव भावे य।
एसो खलु महतंमि निक्खेवो छव्विहो होति ।। वृ. नामस्थापनाद्रव्यक्षेत्रकालभावात्मको महतिषविधो निक्षेपो भवति, तत्र नामस्थापने सुज्ञाने, द्रव्यमहदागमतो नोआगमतश्च, आगमतोइतातत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीर भव्यशरीरव्यतिरिक्तंसचित्ताचित्तमिश्रभेदात्रिधा, तत्रापिसचित्तद्रव्यमहत्औदरिकादिकंशरीरं, तत्रौदारिकंयोजनसहस्रपरिमाणं मत्स्यशरीरं, वैक्रियंतु योजनशतसहस्रपरिमाणं, तैजसकार्मणे तुलोकाकारप्रमाणे, तदेतदौदारिकवैक्रियतैजसकार्मणरूपंचतुर्विधं द्रव्यसचित्तमहद्, अचित्तद्रव्यमहत्समस्तलोकव्याप्यचित्तमहास्कन्धः,मिश्रंतुतदेवमत्स्यादिशरीरं, क्षेत्रमहत् लोकालोकाकाशं, कालमहत्सर्वाद्धा।
___भावमहदौदयिकादिभावरूपतयाषोढा, तत्रौदयिकभावःसर्वसंसारिषु विद्यत इतिकृत्वा बह्वाश्रयत्वान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यपर्यवसितोऽभव्यानमनादिसपर्यवसितोभव्यानांसादिसपर्यवसितोनारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साधपर्यवसितत्वात्कालतो महान्, क्षायोपशमिकोऽप्याश्रयबहुत्वादनाद्यपर्यवसितत्वाच्च महानिति, औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभमत्वेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयत्वादाश्रयमहत्वान्महानिति, सान्निपातिकोऽप्याश्रयबहुत्वादेव महानिति। नि. [१४३] नामंठवणादविए खेत्ते काले तहेव भावे य।
एसो खलु अज्झयणे निक्खेवोछविहो होति॥ वृ. उक्तं “महद्" अध्ययनस्यापि नामादिकं षोढा निक्षेपं दर्शयितुं नियुक्तिकृदाहअध्ययनस्य नामादिकः षोढा निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र च श्रुतस्कन्धे सप्त महाध्ययनानि, तेषामाद्यमध्ययनं पौण्डरीकाख्यं, तस्य पूर्वानपूर्व्या प्रथममिदं पश्चानुपूर्त्यां तु सप्तममनानुपूर्त्यां तु सप्तगच्छगतायाः श्रेण्या अन्योऽन्याभ्यासेन द्विरूपोनेसति पञ्चाशच्छन्य-ष्टत्रिंशदधिकानि भवन्ति ।
नाम्नितुषण्णामिन्न, तत्रापिक्षायोपशमिके भावे, सर्वस्यापिच श्रुतस्य क्षायोपशमिकत्वात्, प्रमाणचिन्तायां जीवगुणप्रमाणे, वक्तव्यतायां सामान्येन सर्वेष्वध्ययनेषु स्वसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोपमया स्वसमयगुणव्यवस्थापन, समवतारे तुयत्र यत्र समवतरति तत्र तत्रलेशतः समवतारितमेवेति।उपक्रमानन्तरं निक्षेपः, सच नामनिष्पने निक्षेपे पौण्डरीकमित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org