________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १
चोपलभ्यमानगुणत्वात्, तस्मात्स्थिदम्-उपात्तशरीरत्वक्पर्यन्तव्याप्यात्मेति,
तस्य चानादिकर्मसंबद्धस्य कदाचिदपि सांसारिकस्यात्मनः स्वरूपेऽनवस्थानात् सत्यप्यमूर्तत्वेमूर्तेन कर्मणा संबन्धोन विरुध्यते, कर्मसंबंधाच्च सूक्ष्मबादरैकेन्द्रियाद्वित्रिचतुष्पञ्चेन्द्रियपर्याप्तापर्याप्ताद्यवस्था बहुविधाः प्रादुर्भवन्ति । तस्य चैकान्तेन क्षणिकत्वे ध्यानाध्ययनश्रमप्रत्यभिज्ञानाद्यभावः एकान्तनित्यत्वे च नारकतिर्यङ्मनुष्यामरगतिपरिणामाभावः स्यात् । तस्मात्स्यादनित्यः स्यान्नित्य आत्मेत्यलमतिप्रसङ्गेन साम्प्रतमेकात्माद्वैतवादमुद्देशार्थाधिकारप्रदर्शितं पूर्वपक्षयितुमाहमू. (९) जहा य पुढवीथूमे, एगे नाणाहि दीसइ।
__ एवं भो! कसिणे लोए, विन्नू नाणाहि दीसइ॥ वृ.दृष्टान्तबलेनैवार्थस्वरूपावगतेः पूर्व टान्तोपन्यासः, यथेत्युपदर्शने, चशब्दोऽपिशब्दार्थे, सच भिन्नक्रम एके इत्यस्यानन्तरं द्रष्टव्यः पृथिव्येव स्तूपः पृथिव्या वास्तूपः पृथिवीसंघाताख्योऽवयवी, स चैकोऽपि यथा नानारूपः-सरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते निम्नोन्नतमूदुकठिनरक्तपीतादिभेदेन वा दृश्यते, न च तस्य पृथिवीतत्त्वस्यैतावता भेदेन भेदो भवति, ‘एवम्' उक्तरीत्या 'भो' इति परमान्त्रणे, कृत्स्नोऽपि लोकः-चेतनाचेतनरूपएको विद्वान् वर्तते, इदमत्र हृदयं-एक एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च तस्यात्मन एतावताऽऽत्मतत्त्वभेदो भवति, तता चोक्तम् । ॥१॥ “एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।। तथा 'पुरुष एवेदं ग्नि' सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति, यदेजति यन्नेजति यह्रे यदु अन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य बाह्यतः' इत्यात्माद्वैतवादः अस्योत्तरदानायाहमू. (१०) एवमेगेत्ति जप्पंति, मंदा आरंभनिस्सिआ।
एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइ ।। वृ. 'एव'मिति अनन्तरोक्तात्माद्वैतवादोपप्रदर्शनम् ‘एके' केचन पुरुषकारणवादिनो ‘जल्पन्ति' प्रतिपादयन्ति, किंभूतास्ते इत्याह-मन्दा' जडाः सम्यक्परिज्ञानविकलाः, मन्दत्वं च तेषां युक्तिविकलात्माऽद्वैतपक्षसमाश्रयणात्, तथाहि-यद्येक एवात्मा स्यान्नात्मबहुत्वं ततो ये सत्त्वाः-प्राणिनः कृषीवलादयः ‘एके' केचन आरम्भे-प्राण्युपमर्दनकारिणि व्यापारे निश्रिताआसक्ताः संबद्धा अध्युपपन्नाः ते च संरम्भसमारम्भारम्भैः ‘कृत्वा' उपादाय ‘स्वयम्' आत्मना 'पापम्' अशुभप्रकृति-रूपमसातोदयफलं तीव्रदुःखं तदनुभवस्थानं वा नरकादिकं नियच्छतीति, आर्षत्वाद्बहुवचनार्थे एकवचनमकारि, ततश्चायमर्थो-निश्चयेन यच्छन्त्यवश्यंतया गच्छन्तिप्राप्नुवन्ति त एवारम्भासक्ता नान्य इति, एतन्न स्याद् ।
अपित्वेकेनापि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायनामपितीव्रदुःखाभिसंबंधः स्याद्, एकत्वादात्मन इति, न चैतदेवं श्यते, तथाहि-यएच कश्चिवसमजसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य इति, तथा सर्वगतत्वे आत्मनो बन्धमोक्षाद्यभावः तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org