________________
२४
सूत्रकृताङ्ग सूत्रम् १/१/१/८ नि. [३३] तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणन्तरमभ्युपगतम्, अन्यथा कथां परावबोधाय शास्त्रप्रणयनमकारि चार्वाकणेत्यलमतिप्रसङ्गेन।तदेवंप्रत्यक्षादन्यदपिप्रमाणमस्ति, तेनात्मा सेत्स्यति, किंपुनस्तदितिचेद, उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत्, चक्षुरिन्द्रियं हि नसाक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या त्वनुमीयते, तथाऽऽत्माऽपि पृथिव्याद्यसाधारणचैतन्यगुणोपलब्धेरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतत्वादवसेयं ।।
तथाअस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात्, पञ्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत्, तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात्, गवाक्षोपरमेऽपितवारोपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत्, तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपितदुपलब्धार्थस्मरणात, गवाक्षोपरमेऽपि तद्दवारोपलब्धार्थस्मर्तृदेवदत्तवत्, तथा अर्थापत्त्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि-सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणांसद्भावइति, अतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यपत्तिरभ्यूह्या, तस्यास्त्विदं लक्षणम् । ॥१॥ प्रमाणषट्कविज्ञातो, तत्रार्थो नान्यथाभवन् ।
अदृष्टं कल्पयेदन्यं, साऽर्थापत्तिरुदाह्यता॥ तथाऽगमादप्यस्तित्वमवसेयं, स चायमागमः-“अस्थि मे आया उववाइए" इत्यादि । यदिवा किमत्रापरप्रमाणचिन्तया?, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात्, ज्ञानगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन पटादिप्रत्यक्षवत्, तथाहिं-अहं सुख्यहं दुःख्येवमाद्यहंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदंशरीरंपुराणंकर्मेतिचशरीराभेदेन निर्दिश्यमानत्वाद्, इत्यादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति । तथा यदुक्तं 'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदिति, एतदप्यसमीचीनं, हेतोरसिद्धत्वात्, तथाहि-नभूतानांकार्यं चैतन्यं, तेषामतद्गुणत्वात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच्च, इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम्।
___ ननुच किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिन्नेनाश्रितेन?, यावता ज्ञानादेवसर्वसंकलनाप्रत्ययादिकं सेत्स्यति,किमात्मनाऽन्तर्गडुकल्पनेति, तथाहि-ज्ञानस्यैव चिद्रूपत्वाद् भूनचेतनैः कायाकारपरिणतैः सह संबन्धेसति सुखदुःखेच्छाद्वेषप्रयलक्रियाः प्रादुष्यन्ति तथा संकलनाप्रत्ययो भवान्तरगमनं चेति, तदेवं व्यवस्थिते किमात्मना कल्पितेनेति?, अत्रोच्यते, नह्यात्मानमेकमाधारभूतमन्तरेणसंकलनाप्रत्ययोघटतेतथाहि-प्रत्येकमिन्द्रियैः स्वविषयग्रहणेसतिपरविषयेचाप्रवृत्तेः एकस्य चपरिच्छेत्तुरभावात्मयापञ्चापि विषयाः परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभाव इति, आलयविज्ञानमेकमस्तीति चेद्, एवं सत्यात्मन एव नामान्तरं भवता कृतं स्यात्, न च ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यमात्मना गुणिना भाव्यमिति ।
___ सच न सर्वव्यापी, तद्गुणस्य सर्वत्रानुपलभ्यमानत्वात्, घटवत्। नापिश्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो वा, तावन्मात्रस्योपात्तशरीराव्यापित्वात्, त्वक्पर्यन्तशरीरव्यापित्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org