________________
२६
सूत्रकृताङ्ग सूत्रम् १/१/१/१० प्रतिपाद्यप्रतिपादकविवेकाभावाच्छाप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वाप्राक्तन्येव नियुक्तिकृद्गाथाऽत्रव्याख्यायते, तद्यथा-पञ्चानांपृथिव्यादीनांभूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धि स्यात, न चैवं, तस्मान्नैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद्, एकस्मादात्मनोऽभिन्नत्वात, तथा पञ्चेन्द्रियस्थानानां-पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्यद्येक एवात्मास्यादिति साम्प्रतं तज्जीवतच्छरीरवादिमतंपूर्वपक्षयितुमाहमू. (११) पत्तेअंकसिणे आया, जे बाला जे अ पंडिआ।
संति पिच्चा न ते संति, नत्थि सत्तोववाइया॥ वृ. तज्जीवतच्छरीरवादिनामयमभ्युपगमः-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यतेअभिव्यज्ये वा, तेनैकैकं शरीरंप्रति प्रत्येकमात्मानः ‘कृत्स्नाः' सर्वेऽप्यात्मान एवमवस्थिताः, ये 'बाला' अज्ञा ये च ‘पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे पृथग व्यवस्थिताः, नह्येक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो, बालपण्डिताद्यविभागप्रसङ्गात्, ननु प्रत्येकशरीराश्रयत्वेनात्मबहुत्वमार्हतानामपीटमेवेत्याशङ्कयाह-'सन्ति' विद्यन्तेयावच्छरीरं विद्यन्तेतदभावेतु न विद्यन्ते, तथाहि
कायाकारपरिणतेषु भूतेषुचैतन्याविर्भावो भवति, भूतसमुदायविघटनेचचैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति 'पिच्चा न ते संती'ति 'प्रेत्य' परलोके न 'ते' आत्मानः सन्ति' विद्यन्ते, परलोकानुयायीशरीराद्भिन्नः स्वकर्मफलभोक्तानकश्चिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह-'नत्थि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः।
तदयमर्थ-'नसन्ति' नविद्यन्ते ‘सत्त्वाः' प्राणिन उपपातेन निर्वृत्ताऔपपातिका-भवाद्भवान्तरगामिनोन भवन्तीति तात्पर्यार्थ, तथाहि तदागमः-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्ती"ति, ननुप्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनः को विशेष इति?,अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्यतुकायाकारपरिणतेभ्योभूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न इत्ययं विशेषः एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाहमू. (१२) नत्थि पुण्णे व पावे वा, नत्थि लोए इतो वरे।
सरीरस्स विनासेनं,विनासो होइ देहिणो॥ वृ. 'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात, तदभावाच्च नास्ति ‘अतः' अस्माल्लोकात् 'परः' अन्योलोकोयत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः-'शरीरस्य' कायस्य 'विनाशेन' भूतविघटनेन 'विनाशः' अभावो 'देहिन' आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापंवाऽनुभवतीति, अतोधर्मिणआत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्ति, तद्यथा--
यथा जलबुद्बुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति, तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्मात्रमेव सर्वं नान्तः कश्चित्सारोऽस्तिएवंभूतसमुदायेविघटतिसति तावन्मात्रंविहायनान्तः सारभूतः कश्चिदात्माख्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org