________________
२७४
सूत्रकृताङ्ग सूत्रम् १/१५/-/६०६/नि. [१३२] शेषकर्मक्षयार्थं यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृत्वा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेणचप्रतिपादितं सुग्रहं भवतीत्यतआदानशब्दस्यतत्पर्यायस्य च ग्रहणशब्दस्य निक्षेप कर्तुकामो नियुक्तिकृदाहनि. [१३२] आदाणे गहणंमिय निक्खेवो होति दोण्हविचउक्को।
एगटुं नाणटुंच होज्ज पगयं तु आदाणे॥ नि. [१३३] जंपढमस्संतिमए बितियस्स उतं हवेज आदिनि ।
एतेणादाणिज्जं एसो अन्नोऽवि पज्जाओ। वृ.अथवा 'जमतीयं तिअस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तच ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपार्थं नियुक्तिकृदाह-'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं, कर्मणिल्युट प्रत्ययः, करणेवा, आदीयतेगृह्यते स्वीक्रियते विवक्षितमनेनेतिकृत्वा। आदानंचपर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपो भवति द्वौ चतुष्क, तद्यथानि. [१३४] नामादी ठवणादी दव्वादी चेव होति भावादी।
दव्वादी पुण दव्वस्स जो सभावो सए ठाणे॥ वृ. नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यस्माल्लौकिकैः परित्यक्तान्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा । भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, तत्राप्रशस्तं क्रोधाधुदयो मिथ्यात्वाविरत्यादिकंवा, प्रशस्तंतूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यगज्ञानादिकंवेत्येतदर्थ-प्रतिपादनपरमेतदेववाऽध्ययनंद्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायत्वादस्येति।
एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थम्-अभिन्नार्थं भवेत् , शब्दसमभिरूढत्थंभूतशब्दनयाभिप्रायेण च नानाथ भवेत्।इहतु'प्रकृतं प्रस्ताव आदाने' आदानविषयेयत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ।
आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थ उभयतश्चद्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण:आद्यन्तपदसध्शत्वेनादानीयंभवति, एतेनप्रकारेण-आद्यन्तपदसशत्वेनादानीयंभवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्यायः' अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादान दिति । केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इतमेव वाऽध्ययनम्, आद्यन्तपदयोः संकलनादिति।
येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेनिक्षेपं कर्तुकाम आह-आदेनामादिकश्चतुर्धा निक्षेपः, नामस्थापने सुगमत्वादनाध्त्य द्रव्यादि दर्शयति-द्रव्यादि पुनः 'द्रव्यस्य परमाण्वादेर्य 'स्वभावः' परिणतिविशेषः 'स्वके स्थाने स्वकीये पर्याये प्रथमम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org