________________
श्रुतस्कन्धः-१, अध्ययनं-१५,
२७५
आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्यः आधः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः, एवमन्यस्यापिपरमाण्वादेर्द्रव्यस्य योयःपरिणतिविशेषःप्रथममुत्पद्यतेससर्वोऽपि द्रव्यादिर्भवति । ननुच कथं क्षीरविनाशसमय एव दध्युत्पादः?, तथाहि ।
उत्पादविनाशौ भावाभावरूपी वस्तुधौ वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोदधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च दृष्टेष्टबाधितमिति, नैषदोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि-तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत्।तदेवंद्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितं, द्रव्यस्य प्राधान्येन विवक्षितत्वादिति । नि. [१३५] आगमनोआगमओ भावादी तं वुहाउवदिसंती।
नोआगमओ भावो पंचविहो होइ नायव्यो। वृ. साम्प्रतंभावादिमधिकृत्याह-भावः-अन्तःकरणस्यपरिणतिविशेषस्तं 'बुद्धाः' तीर्थकरणगणधरादयो 'व्यपदिशन्ति' प्रतिपादयन्ति, तद्यथा-आगमतो नोआगमतश्च, तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् ‘पञ्चविधः' पञ्चप्रकारोभवति, तद्यथा-प्राणाति-पातविरमणादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति। नि. [१३६] आगमओ पुण आदी गणिपिडगं होइ बारसंगंतु।
गंथसिलोगो पदपादअक्खराइंच तत्थादी॥ वृतथा आगमओ' इत्यादि,आगममाश्रित्य पुनरादिरेवंद्रष्टव्यः, तद्यथा-यदेतद्गणिनःआचार्यस्य पिटकं-सर्वस्वमाधारो वा तद्द्वादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यं, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकत्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम्, एवंविधो बहुप्रकारो भावादिद्रष्टव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीतिपदं तस्यापिककारो, द्वादशानांत्वङ्गानामाचाराङ्गमादिस्तस्यापि ज्ञपरिज्ञाध्ययनमस्यापि चजीवोद्देशकस्तस्यापि 'सुयंति पदंतस्यापिसुकार इति, अस्य च प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुदेशकश्लोकपादपदवर्णादिष्टव्य इति । ___ गतो नामनिष्पनो निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्मू. (६०७) जमतीतं पडुपानं, आगमिस्संच नायओ।
सव्वं मन्नति तं ताईं, दसणावरणंतए॥ वृ.अस्य चानन्तरसूत्रेणसंबन्धोवक्तव्यः, सचायं, तद्यथा-आदेयवाक्यः कुशलोव्यक्तोऽ हतितथोक्यं समाधिंभाषितुं, यश्चयदतीतंप्रत्युत्पन्नमागामिचसर्वमवगच्छतिस एव भाषितुमर्हति नान्य इति । परम्परसूत्रसम्बन्धस्तुय एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतद्बुध्येतेत्यादिकः संबन्धोऽपरसूत्रैरपि स्वबुद्धा लगनीय इति ।
तदेवंप्रतिपादितसम्बन्धस्यास्य सूत्रस्य व्याख्याप्रस्तूयते-यत्किमपिद्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतम्-एष्यत्कालभावितस्यासी सर्वस्यापि यथावस्थितस्वरूपनिरूपणतो नायकः' प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृत्वं च परिज्ञाने सति भवत्यतस्तदुपदिश्यते-'सर्वम्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org