SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१४, २७३ हस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तम् - ॥१॥ "अप्रशान्तमतौ शास्त्रसद्मावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे॥ इत्यादि, न च सूत्रमन्यत्स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा सूत्रं तदर्थं वा संसारासायी-त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथासूत्रंन कर्तव्यमित्याह-परहितैकरतः शास्ता तस्मिन्शास्तरियाव्यवस्थिता भक्ति-बहुमानस्तयातद्भक्त्याअनुविचिन्त्य-ममानेनोक्तेन नकदाचिदागमबाधा स्यादित्येवंपर्यालोच्य वादं वदेत्, तथा यच्छ्रुतमाचार्यदिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधनामनुवर्तमानोऽन्येभ्यऋणमोक्षप्रतिपद्यमानः प्रतिपादयेत् प्ररूपयेन्न सुखशीलतां मन्यमानो यथाकथंचित्तिष्ठेदिति। मू. (६०६) से सुद्धसुत्ते उवहाणवंच, धम्मंचजे विंदति तत्थ तत्थ। आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासिउंतं समाहिं ।।-त्तिबेमि । वृ. अध्ययनोपसंहारार्थमाह-'स' सम्यगदर्शनस्यालूषको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकःशुद्धम् अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनतश्च सूत्रं-प्रवचनं यस्यासौशुद्धसूत्रः, तथोपधानं-तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमेतद्विद्यतेयस्यासावुपधानवान्, तथा 'धर्म' श्रुतचारित्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते। ___'तत्र तत्रे'ति य आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्धेतुना यदिवा स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर(समय)सिद्धश्च परस्मिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च ‘आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलो' निपुणः आगमप्रतिपादने सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'व्यक्तः' परिस्फुटोनासमीक्ष्यकारी, यश्चैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'तं' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधिं 'भाषितुं' प्रतिपादयितुं, नापरः कश्चिदिति। इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत्, गतोऽनुगमो, नयाः प्राग्वद्व्याख्येयाः। अध्ययनं-१४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुतस्कन्धस्य चतुर्दशमध्ययनटीका परिसमाप्ता। (अध्ययनं-१५आदानीय/जमतीयं) वृ.अथ चतुर्दशाध्ययनानन्तरंपञ्चदशमारभ्यते, अस्यचायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यमिहितं, ग्रन्थपरित्यागाचायतचारित्रो भवति साधुः ततो याद्दगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोयक्रम अन्तर्गतोऽर्थाधिकारोऽयं, तद्यथा आयतचारित्रेण साधुनाभाव्यं नामनिष्पनेतुनिक्षेपेआदानीयमितिनाम, मोक्षार्थिनाऽ2018 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy