________________
२६९
श्रुतस्कन्धः-१, अध्ययनं-१४, तीर्थकृतः सर्वज्ञास्ते 'एवम्' अनन्तरोक्तया नीत्या सर्वभावान् केवलालोकेन दृष्ट्वा आचक्षते' प्रतिपादयन्तीति। एतदेवसमितिगुप्त्यादिकं संसारोत्तारणसमर्थं ते त्रिलोकदर्शिनः कथितवन्तो न पुनर्भूय एतं 'प्रमादसङ्गं मद्यविषयादिकं सम्बन्ध विधेयत्वेन प्रतिपादितवन्तः।। किञ्चान्यत्मू. (५९६) निसम्म से भिक्खु समीहियटुं, पडिभाणवं होइ विसारए य।
आयाणअट्ठी वोदाणमोणं, उवेच्च सुद्धेण उवेति मोक्खं ॥ वृ.सगुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं निशम्य' अवगम्य स्वतः समीहितंचार्थ-मोक्षार्थं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकुलवासतः 'प्रतिभानवान्' उत्पन्नप्रतिभो भवति । तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छ्रोतृणां यथावस्थितार्थानां 'विशारदो भवति' प्रतिपादको भवति । मोक्षार्थिनाऽऽदीयत इत्यादानं-सम्यगज्ञानादिकं तेनार्थ स एव वाऽर्थः आदानार्थः स विद्यते यस्यासावादनार्थी, स एवंभतो ज्ञानादिप्रयोजनवान व्यवदानं-द्वादशप्रकारं तपो मौनंसंयम आश्रवनिरोधरूपस्तदेवमेतौतपःसंयमावुपेत्य-प्राप्यग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च।। _ 'शुद्धेन' निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति ‘न उवेइ मारंति क्वचित्पाठः, बहुशो भ्रियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स भारः-संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यकत्व उत्कृष्टतः सप्ताष्टौ वा भवान् म्रियते नो मिति । मू. (५९७) संखाइ धम्मंच वियागरंति, बुद्धा हु ते अंतकरा भवंति।
ते पारगा दोण्हवि मोयणाए, संसोधितं पण्हमुदाहरंति ॥ वृ. तदेवंगुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति तद्दर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्यासद्बुद्धिस्तया स्वतो धर्म परिज्ञायापरेषांयथावस्थितं धर्मं श्रुतचारित्राख्यं 'व्यागृणन्ति प्रतिपादयन्ति, यदिवास्वपरशक्ति परिज्ञाय पर्षदं वा प्रतिपाद्यं चार्थं सम्यगवबुध्य धर्मं प्रतिपादयन्ति । ते चैवंविधा बुद्धाःकालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति।
तेयथावस्थितधर्मप्ररूपका 'द्वयोरपि' परात्मनोःकर्मपाशविमोचनयास्नेहादिनिगडविमोचनयावाकरणभूतयासंसारसमुद्रस्य पारगाभवन्ति।तेचैवंभूताः? 'सम्यक्शोधितं पूर्वोत्तराविरुद्धं 'प्रश्न' शब्दमुदाहरन्ति, तथाहि-पूर्वबुद्धया पर्यालोच्य कोऽयंपुरुषः कस्यचार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक्परीक्ष्य व्याकुर्यादिति, अथवा परेण कञ्चिदर्थं पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत्-सम्यगुत्तरं दद्यादिति, तथा चोक्तम् - ॥१॥ "आयरियसयासा व धारिएण अत्येण झरियमुनिएणं।
तो संघमज्झयारे ववहरिउंजे सुहं होंति॥ तदेवं ते गीतार्था यथावस्थितं धर्मं कथयन्तः स्वपरतारका भवन्तीति । मू. (१९८) नो छायएनो ऽविय लूसएज्जा, माणं न सेवेज पगासणं च ।
नयावि पन्ने परिहास कुजा, नयाऽऽसियावाय वियागरेज्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org