SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६८ सूत्रकृताङ्ग सूत्रम् १/१४/-/५९३ मू. (५९३) उड्ढे अहेयं तिरियं दिसासु, तसा यजे थावराजे य पाणा। सया जए तेसु परिब्बएजा, मणप्पओसं अविकंपमाणे ॥ वृ.शिक्षकोहिगुरुकुलवासितया जिनवचनाभिज्ञोभवति, तत्कोविदश्च सम्यक्मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह-ऊर्ध्वधस्तिर्यगत् दिक्षु विदिक्षुचेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपातविरतिरभिहिता, द्रव्यतस्तु दर्शयति-त्रस्यन्तीति त्रसाः-तेजोवायू द्वीन्द्रियादयश्च, तथायेचस्थावराः-स्थावरनामकर्मोदयवर्तिनः पृथिव्यबूवनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राण- धारणापाणिनस्तेषु, 'सदा' सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत्-परिसम्ताव्रजेत् संयमानुष्ठायी भवेत् । भावप्राणातिपातविरतिं दर्शयति-स्थावरजङ्गमेषुप्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावद्दुर्वचनदण्डप्रहारादिकं, तेष्वपकारिष्वपिमनसाऽपि न मङ्गुलं चिन्तयेद्, 'अविकम्पमानः' संयमादचलन् सदाचारमनुपालयेदिति, तदेवंयोगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति । मू. (५९४) कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी पुढो पवेसे, संखा इमं केवलियं समाहिं ।। वृ.गुरोरन्तिकेवसतो विनयमाह-सूत्रमर्थं तदुभयंवा विशिष्टेन-प्रष्टव्यकालेनाचायदिरवसरं ज्ञात्वाप्रजायन्तइति प्रजा-जन्तवस्तासुप्रजासु-जन्तुविषयेचतुर्दशभूतग्रामसंबद्धंकञ्चिदाचार्यादिकं सम्यगितं-सदाचारानुष्ठायिनं सम्यक् वा समन्तादवा जन्तुगतं पृच्छेदिति। स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयतिमुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य-वीतरागस्य तीर्थकरस्य वा वृत्तम्-अनुष्ठानं संयमज्ञानंवा तत्प्रणीतमागमंवा सम्यगाचक्षाणः सपर्ययाऽयं माननीयो भवति कथमित्याह-'तद्' आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुं शीलमस्य श्रोत्रकारी-यथोपदेशकारी आज्ञाविधायी सन्पृथक्पृथगुपन्यस्तमादरेणहृदयेप्रवेशयेत्-चेतसिव्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति । 'संख्याय' सम्यक् ज्ञात्वा 'इम' मिति वक्ष्यमाणं केवलिन इदं कैवलिकं केवलिना कथितंसमाधि-सन्मार्गं सम्यगज्ञानादिकंमोक्षमार्गमाचार्यादिनाकथितं यथोपदेशंप्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति। मू. (५९५) अस्सिं सुटिचा तिविहेण तायी, एएसुया संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, न भुञ्जमेयंति पमायसंगं। वृ. किंचान्यत्-'अस्मिन्' गुरुकुलवासे निवसता यच्छ्रुतं श्रुत्वा च सम्यक् हृदयव्यवस्थापनद्वारेणावधारितंतस्मिन् समाधिभूते मोक्षमार्गे सुष्टु स्थित्वा त्रिविधेने तिमनोवाक्कायकर्मभिः कृतकारितानुमतिभिर्वाऽऽत्मानं त्रातुंशीलमस्येति त्रायीजन्तूनां सदुपदेशदानस्त्राणकरणशीलो वा तस्य स्वपरत्रायिणः, एतेषु च समितिगुप्त्यादिषु समाधिमार्गेषु स्थितस्य शान्तिर्भवतिअशेषद्वन्द्वोपरमो भवति तथा निरोधम्-अशेषकर्मक्षयरूपम् 'आहुः' तद्विदः प्रतिपादितवन्तः। क एवमाहुरित्याह-त्रिलोकम्-ऊवधिस्तिर्यगलक्षणं द्रष्टुं शीलं येषां ते त्रिलोकदर्शिनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy