________________
श्रुतस्कन्धः-१, अध्ययनं-१४,
२६७
मू. (५९०) अह तेण मूढेण अमूढगस्स, कायव्व पूया सविसेसजुत्ता।
एओवमंतस्थ उदाहु वीरे, अनुगम्म अत्थं उवणेति सम्म । वृ. पुनरप्यस्यार्थस्य पुष्टयर्थमाह-'अथे' त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा 'तेन' मूढेन सन्मार्गावतारितेनतदनन्तरं तस्य अमूढस्य' सत्पथोपदेष्टुपुलिन्दादेरपिपरमुपकारंमन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् ‘उदाहृतवान्' अभिहितवान् ‘वीरः' तीर्थकरोऽन्यो वागणधरादिकः 'अनुगम्य' बुद्धवा 'अर्थ' परमार्थंचोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा। अहमनेन मिथ्यात्ववनाज्जन्मजरामरणाधनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति । अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति, तद्यथा॥१॥ गेहमि अग्गिजालाउलंमिजह नाम डज्झमाणंमि ।
जो बोहेइ सुयंतं सो तस्स जणो परमबंधू ।। ॥२॥ जह वा विससंजुत्तं भत्तं निद्धमिह भोत्तुकामस्स ।
जोवि सदोसं साहइ सो तस्स जणो परमबंधू ।। मू. (५९१) नेता जहा अंधकारंसि राओ, मग्गं न जाणाति अपस्समाणे ।
से सूरिअस्स अब्भुग्गमेणं, मग्गं वियाणाइ पगासियंसि॥ वृ.अयमपरः सूत्रेणैव दृष्टान्तोऽभिधीयते-यथा हि सजलजलधराच्छादितबहलान्धकारायां रात्रौ नेता' नायकोऽटव्यादौ स्वभ्यस्तप्रदेशोऽपि मार्ग' पन्थानमन्धकारावृतत्वात्स्वह-स्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिनत्ति।
__ स एव प्रणेता ‘सूर्यस्य' आदित्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते दिकचक्रे सम्यगाविर्भूते पाषाणदरिनिम्नोन्नतादिकेमार्गंजानाति-विवक्षितप्रदेशप्रापकंपन्थानमभिव्यक्तचक्षु परिच्छिनत्ति-दोषगुणविचारणतः सम्यगवगच्छतीति। एवं दृष्टान्तंप्रदर्श्यदा न्तिकमधिकृत्याहमू. (५९२) एवं तु सेहेवि अपुट्ठधम्मे, धम्मं न जाणाइ अबुज्झमाणे।
से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ॥ वृ. यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्गं न जानाति सूर्योद्गमेनापनीतेतमसि पश्चाजानाति एवंतु 'शिष्यकः' अभिनवप्रव्रजितोऽपिसूत्रार्थानिष्पन्नः अपुष्टःअपुष्कलः सम्यगपरिज्ञातोधर्म-श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तुधरणस्वभावोयेनासावपुष्टधर्मा, स चागीतार्थ-सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्मं न जानातीति-न सम्यक्परिच्छिनत्ति, स एव तु पश्चाद्गुरुकुलवासाज्जिनवचनेन 'कोविदः' अभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति ।
इदमुक्तं भवति-यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटाघटपटादयः पदार्था प्रतीतयन्तेएवं सर्वज्ञप्रणीतागमेनापिसूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निशङ्क प्रतीयन्त इति ।अपिच कदाचिच्चक्षुषाऽन्यताभूतोऽप्यर्थोऽन्यथापरिच्छिद्यते, तद्यथा-मरुमरीचिकनिचयो जलभ्रान्त्या किंशुकनिचयोऽभ्याकारेणापीति । न च सर्वज्ञप्रणीतस्यागमस्य कचिदपि व्यभिचारः, तद्व्यभिचारेहि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धुमशक्यत्वादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org