________________
२६६
सूत्रकृताङ्ग सूत्रम् १/१४/-/५८७ वृ.साम्प्रतंस्वपक्षचोदनानन्तरतः स्वपरचोदनामधिकृत्याहृ-विरुद्धोत्थानेनोस्थितोव्युत्थितःपरतीर्थिकोगृहस्थोवा मिथ्याष्टिस्तेन प्रमादस्खलितेचोदितःस्वसमयेन, तद्यथा-नैवंविधमनुष्ठानं भवतामागमेव्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितः-संयमाद्धष्टस्तेनापरः साधुःस्खलितः सन् स्वसमयेन-अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित' आगमंप्रदाभिहितः, तद्यथा
नैतत्त्वरितगमनादिकंभवतामनुज्ञातमिति, तथा अन्येन वा मिथ्याष्टयादिना क्षुल्लकेन' लघुतरेणवयसा वृद्धेनवा कुत्सिताचारप्रवृत्तचोदितः, तुशब्दात्समानवयसावातथा अतीवाकार्यकरणंप्रति उत्थिताअत्युत्थिताः, यदिवा-दासीत्वेन अत्यन्तमुत्थिता दास्याअपिदासीति, तामेव विशिनष्टि-'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुर्यात्, एतदुक्तं भवति ।
अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुन कुप्येत्, किं पुनरन्येनेति? तथा अगारिणां' गृहस्थानांयः 'समयः अनुष्ठानंतत्समयेनानुशासितो, गृहस्थानामपि एतन्न युज्यते कर्तुं यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दूषयेदिति॥ एतदेवाहमू. (५८८) न तेसुकुज्झे न य पव्वहेजा, न यावि किंची फरुसं वदेजा।
___ तहा करिस्संति पडिस्सुणेजा, सेयं खु मेयं न पमाय कुजा ॥
वृ. 'तेषु' स्वपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न क्रुध्येद अन्यस्मिन् वा दुर्वचनेऽभिहितेन कुप्येद् एवं च चिन्तयेत्। ॥१॥ ‘आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मति कार्या।
यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ॥ तथा नाप्यपरेण स्वतोऽधमेनापिचोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थं पर्यालोच्य तं चोदकं प्रकर्षेण व्यथेत् दण्डादि प्रहारेण पीडयेत् न चापि किञ्चित्परुषं तत्पीडादिकारि 'वदेत्' ब्रूयात् ।
ममैवायमसदनुष्ठायिनो दोषो, येनायमपिमामेवंचोदयति, चोदितश्चैवंविधंभवताअसदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्यं तथा करिष्यामीत्येव मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिथ्यादुष्कृतादिना निवर्तेत्, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भ्यात्क्वचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति। मू. (५८९) वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं ।
तेणेव मझंइणमेव सेयं, जं मे बुहा समनुसासयंति॥ ___ वृ.अस्यार्थस्यद्दष्टान्तं दर्शयितुमाह-'वने' गहने महाटव्यां दिग्भ्रमेण कस्यचिद्वयाकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा 'अमूढाः' सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां हितम्' अशेषापायरहितमीप्सितस्थानप्रापकं मार्ग' पन्थानम् 'अनुशासन्ति प्रतिपादयन्ति, सचतैःसदसद्विवेकिभिः सन्मार्गावतरणमनुशासितआत्मनःश्रेयोमन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु ममायमनुग्रह इत्येवं मन्तव्यं, यदेतद् बुद्धाः सम्यगनुशासयन्ति
सन्मार्गेऽवतारयन्ति पुत्रमिव पितर तन्ममैव श्रेय इति मन्तव्यम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org