SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ सूत्रकृताङ्ग सूत्रम् १/१४/-/५७९/नि. [१२७] शिक्षाशिष्येण 'प्रकृतम्' अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः । नि. [१२८] सो सिक्खगो यदुविहो गहणे आसेवणाय नायव्वो। गहणंमि होति तिविहो सुत्ते अत्थे तदुभएय॥ वृ. यथाप्रतिज्ञातमधिकृत्याह-यः शिक्षां गृह्णाति शैक्षकः स द्विविधो-द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादः सकाशाच्छिक्षा-इच्छामिच्छातहक्कारादिरूपां गृहह्णति शिक्षति, तथा शिक्षितांचाभ्यस्यति-अहर्निशमनुतिष्ठतिसएवंविधो ग्रहणासेवनाभेदभिन्नः शिष्योज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाह-शिक्षाया 'ग्रहणे' उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः। नि. [१२९] आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य। मूलगुणे पंचविहो उत्तरगुण बारसविहो उ । वृ.साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह-यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा-'मूलगुणे' मूलगुणविषये आसेवमानःसम्यगमूल-गुणानामनुष्ठानं कुर्वन् तथा उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवना-शिक्षक भवति, तत्रापिमूलगुणे पञ्चप्रकारः-प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणा- त्पञ्चविधो भवति मूलगुणेष्वासेवना शिक्षकः, तथोत्तरगुणविषये सम्यपिण्डविशुद्धयादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः ॥१॥ पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि॥ यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणवेनाधिकृत्याह-'उत्तरगुणे' उत्तरगुणविषये तपोद्वादशभेदभिन्नं यः सम्यग् विधत्तेसआसेवनाशिक्षको भवतीति ॥ शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा शिष्यापेक्षया हि । नि. [१३०] आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतोय । सिक्खावंतो दुविहो गहणे आसेवणे चेव॥ वृ.आचार्यो 'द्विविधो द्विभेदः,एकयःप्रव्रज्यां ग्राहयत्यपरस्तुयःशिक्षामिति, शिक्षयन्नपि द्विविधः-एकोयः शिक्षाशास्त्रंग्राहयनति-पाठयत्यपरस्तुतदर्थदशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति-सम्यगनुष्ठानं कारयति ।। नि. [१३१] गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ॥ वृ.तत्र सूत्रार्थतदुभयभेदादग्राहयन्नप्याचार्यस्त्रधा भवति।आसेवनाचार्योऽपिमूलोत्तरगुणभेदाद्दिविधो भवति।गतो नामनिष्पन्नोनिक्षेपः, तदनन्तरंकस्तंसत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्मू. (५८०) गंथं विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरं वसेजा। ओवायकारी विनयं सुसिक्खे, जे छेय विप्पमायं न कुजा ॥ वृ. 'इह' प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रथ्यते आत्मा येन स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy