________________
श्रुतस्कन्धः -१, अध्ययनं -१३,
२६१
च तथाऽप्रियं च तत्समाश्रितदेव- ताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्मसम्यग्दर्शनादिकंकथयेत्, उपसंहारमाह-'सर्वाननन्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् ‘वर्जयन्' परिहरन् कथयेद् 'अनाकुलः सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति। मू. (५७९) आहत्तहीयं समुपेहमाणेसव्वेहिं पाणेहिं निहाय दंडं।
नो जीवियं नो मरणाहिकंखी, परिव्वएज्जा वलयाविमुक्के ।-त्तिबेमि।
वृ.सर्वाध्ययनोपसंहारार्थमाह आहत्तहीय' मित्यादि, यथातथाभावोयाथातथ्यं-धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्वं सूत्रानुगतं सम्यकत्वंचारित्रंवातत् 'प्रेक्षमाणः' पर्यालोचयन सूत्रार्थं सदनुष्ठानतोऽभ्यस्यन् ‘सर्वेषु' स्थावरजङ्गमेषु सूक्ष्मबादरभेदभिन्नेषु पृथिवीकायादिषु दण्डयन्ते प्राणिनो येन स दण्डः-प्राणव्यपरोपणविधिस्तं 'निधाय' परित्यज्य, प्राणात्ययेऽपि याथातथ्यं धर्मं नोल्लङ्घयेदिति । एतदेव दर्शयति
___ 'जीवितम्' असंयमजीवितं दीर्घायुष्कं वा स्थावरजङ्गमजन्तुदण्डेन नाभिकाङ्क्षी स्यात् परीषहपराजितो वेदनासमुद्घात (समव) हतो वा तद्वेदनाम सहमानो जलानलसंपातापादितजन्तूपमर्दैन नापि मरणाभिकाङ्क्षी स्यात्।तदेवं याथातथ्यमुत्प्रेक्षमाणः सर्वेषुप्राणिषूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानंचरेद्-उद्युक्तविहारीभवेत् मेघावी' मर्यादा व्यवस्थितोविदितवेद्यो वा वलयेन-मायारूपेणमोहनीयकर्मणावा विविधप्रकर्षेणमुक्तोविप्रमुक्तइति।इति परिसमाप्तयर्थे ब्रवीमीति पूर्ववत्।
अध्ययनं-१३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्य विरचिता प्रथमः श्रुतस्कन्धस्य त्रयोदशमध्ययनटीका परिसमाप्ता।
(अध्ययनं-१४ “ग्रन्थ") वृ. उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययनेयाथातथ्यमिति सम्यक्चारित्रमभिहितं,तञ्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातंभवति, तत्यागश्चानेनाध्ययनेनप्रतिपाद्यतइत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं ।
तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदादुनगुणनिष्पन्नत्वाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाहनि. [१२७] गंथो पुव्वुद्दिट्टो दुविहो सिस्सोय होति नायव्यो।
पव्वावण सिक्खावण पगयं सिक्खावणाए उ॥ वृ. ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्यनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो' द्विप्रकारो ज्ञातव्यो भवति, तद्यथा-प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षा वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह (तु) पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org