________________
२६०
सूत्रकृताङ्ग सूत्रम् १/१३/-/५७६
मू. (५७६) केसिंचि तक्काइ अबुज्झ भावं, खुद्दपि गच्छेज्ज असद्दहाणे ।
आउस्स कालाइयारं वघाए, लद्धानुमाने य परेसु अटे॥ वृ.किञ्चान्यत्-केषाञ्चिन्मिथ्याद्दधीनांकुतीर्थिकभावितानांस्वदर्शनाऽऽग्रहिणां 'तर्कया' वितर्केणस्वमतिपर्यालोचनेन ‘भावम्' अभिप्रायंदुष्टान्तःकरणवृत्तित्वमबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात्, सच तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयनप्रतिपद्यमानोऽतिकटुकं भावयन् 'क्षुद्रत्वमपि गच्छेद्' तदविरुपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति।
क्षुद्रत्वगमनमेव दर्शयति-सनिन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं' परिक्षेपस्वभावं कालातिचारं-दीर्घस्थितिकमप्यायुः संवर्तयेत्, एतदुक्तं भवति-धर्मदेशना हि पुरुषविशेषं ज्ञात्वा विधेया, तद्यथा-कोऽयं पुरुषो राजादि ? कंच देवताविशेषं नः? ____ कतरद्वा दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयमित्येवं सम्यक् परिज्ञाय यथार्ह धर्मदेशना विधेया, यश्चैतदबुद्ध्वा किञ्चिद्धर्मदेशनाद्वारेणपरविरोधकृद्धचोब्रूयात्सपरस्मादैहिकामुष्मिकयोमरणादिकमपकारं प्राप्नुयादिति, यत एवं ततोलब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः ‘परेषु' प्रतिपाद्येषु यथायोगं यथार्हप्रतिपत्त्या अर्थान्' सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति । अपिचमू. (५७७) कम्मं च छंदं च विगिंच धीरे, विणइज्ज उ सव्वओ आयभावं ।
रूवेहिं लुप्पंति भयावहेहिं, विजंगहाया तसथावरेहिं ।। वृ. 'धीरः' अक्षोभ्यः सद्बुद्धयलङ्कु तो वा देशनावसरे धर्मकथाश्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभावंवातथा 'छन्दम्' अभिप्रायंसम्यक् विवेचयेत्' जानीयात्, ज्ञात्वाचपर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्थावगमो भवति यथा च मनो न दूष्यते, अपितुप्रसन्नता व्रजति, एतदभिसंधिमानाह-विशेषेण नयेद्-अपनयेत्पर्षदः पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात्, 'आयभावं'ति क्वचित्पाठः ।
तस्यायमर्थ-'आत्मभावः' अनादिभवाभ्यस्तोमिथ्यात्वादिकस्तमपनयेत्, यदिवाऽऽत्मभावो-विषयगृध्नुताऽतस्तमपनयेदिति। एतद्दर्शयति-'रूपैः' नयनमनोहारिभि स्त्रीणामङ्गप्रत्यगर्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा 'विलुप्यन्ते' सद्धर्माद्वाध्यन्ते, किंभूत रूपैः ?- भयावहैः' भयमावहन्ति भयावहानि । इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः प्रादुर्भवन्तिजन्मान्तरे च तिर्यङ्नरकादिके यातनास्थाने प्राणिनोविषयासक्तावेदनामनुभवन्तीत्येवं विद्वान् पण्डितोधर्मदेशनाभिज्ञोगृहीत्वा पराभिप्रायंसम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत्। मू. (५७८) न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सइ नो करेजा।
सव्वे अणढे परिवजयंते, अनाउले या अकसाइ भिक्खू ॥ वृ.पूजासत्कारादिनिरपेक्षेणच सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवाहान-साधुर्देशनां विदधानोन पूजन-वस्यात्रादिलाभरूपम-भिकाङ्क्षनापि श्लोकं श्लाघां कीर्तिम्आत्मप्रशंसां कामयेद् अभिलषेत्।तथा श्रोतुर्यप्रियंराजकथाविकथादिकंछलितकथादिकं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org